SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव- चूर्णिः !निश्चयव्यवहाराभ्यां ज्ञानलाभ: // 39 // योगेषु समुचितेषु पञ्चेन्द्रियवद्वक्तव्यं, मनोरहितवाग्योगिषु विकलेन्द्रियवत् , केवलकाययोगिष्वेकेन्द्रियवत् 4 / तथा 'वेद' इति स्त्रीपुन्नपुंसकरूपेषु त्रिष्वपि वेदेषु पूर्वप्रतिपन्नाः सन्ति, अन्ये भाज्याः 5 / कषायद्वारे आयेष्वनन्तानुबन्धिक्रोधादिषु सासादनसम्यक्त्वमङ्गीकृत्य पूर्वप्रतिपन्नाः सन्ति न वितरे, शेषेषु द्वादशकषायेषु आद्या नियमतः सन्ति, अन्ये भाज्याः 6, लेश्याद्वारे श्लेषयन्त्यात्मानमष्टविधेन कर्मणेति लेश्याः, कायाद्यन्यतमयोगवतः कृष्णादिद्रव्यसम्बन्धादात्मनः परिणामा इत्यर्थः। तत्राद्यासु तिसृष्वाद्याः सन्ति नेतरे, शेषासु गतिवत् / सम्यक्त्वद्वारे व्यवहारनिश्चयनयाभ्यां विचारः, तत्र व्यवहारनयमतेन सम्यग्दर्शनमतिश्रुतानां प्रतिपद्यमानको मिथ्यादृष्टिरेव भवति, न पुनः सम्यग्दृष्टिः सन् मतिश्रुते प्रतिपद्यते, कुतः?, सम्यग्दर्शनमतिश्रुतानां युगपल्लाभात् / यदि हि प्राप्ते सति सम्यक्त्वे मतिश्रुते. प्रतिपद्यते तदा स्यात् सम्यग्दृष्टिमतेः प्रतिपद्यमानकः, न चैतदस्ति, सम्यक्त्वेन सहैव तल्लाभात् / अथ सम्यक्त्वेन सह लब्धे अपि मतिश्रुते सम्यग्दृष्टिः पुनरपि प्रतिपद्यते तमुनवस्था, ततः सम्यग्दृष्टिः पूर्वप्रतिपन्न एव नेतरः। निश्चय नय स्त्वाह-सम्यग्दृष्टिः पूर्वप्रतिपन्नः प्रतिपद्यमानकश्च मतेः सम्यग्दर्शनसहायत्वात् , ननु मतिलाभस्य सम्यग्दर्शनसहायत्वात् इति व्यवहारेणाप्युक्तं तत्को अस्य व्यवहाराद्विशेषो येनास्य सम्यग्दृष्टिर्मतेः प्रतिपद्यमानको भवति इत्याह-क्रियाकालनिष्ठाकालयोरभेदादिति, निश्चयो हि मन्यते यदैव सम्यक्त्वप्राप्तिक्रियाविशिष्टो भवति जीवस्तदैव सम्यग्दृष्टिव्यपदेशमासादयति, क्रियाकालस्य निष्ठाकालस्य चैकत्वात्। श्रुतः सम्यग्दृष्टिः सन्नेतदभिप्रायेण मतिज्ञानं प्रतिपद्यत इति 8 // ज्ञानद्वारे मत्यादिभेदाद ज्ञानं पञ्चधा, अत्रापि व्यवहारनिश्चयनयाभ्यां विचारः, तत्र व्यवहारनयमतेन मतिश्रुतावधिमनःपर्यायज्ञानिषु आद्या नापरे, न ह्येतन्मतेन ज्ञानी सन् मतिज्ञानं प्रतिपद्यते किन्त्वज्ञानीति, केवलिन्युभयाभावः, तस्य क्षायोपशमिक M // 39 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy