________________ | गत्यादयो आवश्यकनियुक्तेरव चूर्णिः मार्गणाः गा.१४-१५ // 38 // *EXXEEEEEEEEEE****** तत्प्रतिपद्यते 6 / भागो-मतिज्ञानिनः शेषज्ञानिनां कतिभागे वर्तन्ते? ७।भावः कस्मिन्भावे मतिज्ञानिनो वर्तन्ते? 8 / अल्पबहुत्वं च वक्तव्यं 9 / ननु भागद्वारादेवायमर्थो अवगतस्ततः किमनेन द्वारेण ?, न, अभिप्रायापरिज्ञानात् , इह मतिज्ञानिना| मेव पूर्वप्रतिपन्नप्रतिपद्यमानकानां परस्परमल्पबहुत्वं वक्तव्यं / इह च ये मतिज्ञानलाभस्याद्यसमये वर्तन्ते ते प्रतिपद्यमानकाः, ये तु तल्लाभस्य द्वितीयादिसमयेषु वर्तन्ते ते पूर्वप्रतिपन्नाः, भागस्तु शेषज्ञानापेक्षया // 13 // गइ इंदिए य काए, जोए वेए कसायलेसासु / सम्मत्तनाणदंसणसंजयउवओग आहारे // 14 // भासगपरित्त पज्जत्त, सुहमे सण्णी य होइ भवचरिमे। आभिणिबोहिअनाणं, मग्गिजह एसु ठाणेसु॥१५॥ गाथाद्वयेनाभिनिबोधिकज्ञानस्य सत्पदप्ररूपणताद्वारावयवार्थः प्रतिपाद्यते-मतिज्ञानं किमस्ति नास्तीति ?, अस्ति, यद्यस्ति व तत् ?, तत्र गतिमङ्गीकृत्यालोच्यते, सा गतिश्चतुर्द्धा नारकतिर्यमनुष्यामरभेदात्, तत्र चतुर्विधायामपि गतौ मतिज्ञानस्य पूर्वप्रतिपन्ना नियमतो विद्यन्ते प्रतिपद्यमानकास्तु विवक्षितकाले भाज्या:-कदाचिद्भवन्ति कदाचिन्नेति 1 / अथेन्द्रियाण्यङ्गीकृत्य मृग्यते, तत्र पश्चेन्द्रियाः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपाद्यमानास्तु भाज्याः, द्वित्रिचतुरिन्द्रियास्तु करणापर्याप्तावस्थायां पूर्वभवायातं सासादनसम्यक्त्वमङ्गीकृत्य पूर्वप्रतिपन्नाः सम्भवन्ति, नवितरे, एकेन्द्रियेषूभयाभावः 2 / कायानधिकृत्य विचार्यते, तत्र त्रसकाये पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु भाज्याः, शेषकायेषु पञ्चसूभयाभावः, एतच्च सिद्धान्ताभिप्रायेण, कार्मग्रन्थिकाभिप्रायेण तु लब्धिपर्याप्तबादरपृथिव्यवनस्पतिषु करणापर्याप्तेषु पूर्वप्रतिपन्नाः सम्भवन्ति, सासादनसम्यक्त्वस्य तदभिप्रायेण तेषु सम्भवात् , इतरे तु सर्वथा नैव, तेजोवायवस्तूभयविकला एवेति 3 / योगानधिकृत्य मनोवाक्काय // 38 //