SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः मतेः सदा दीनि द्वाराणि गा.१३ XX**************** अपोहनमपोहो निश्चयः, विमर्शनं विमर्शः, अपायात्पूर्व ईहाया उत्तरः प्रायः शिरःकण्डूयनादयः पुरुषधर्माः, नात्र राजपथे स्थाणुर्भवति पुरुषः सम्भाव्यत इति सम्प्रत्ययः, अस्तित्वरूपमन्वयिधर्मान्वेषणं मार्गणा, चः समुच्चयार्थे, नास्तित्वरूपव्यतिरेकधर्मालोचनं गवेषणा, संज्ञानं संज्ञा-व्यञ्जनार्थावग्रहोत्तरकालभावी मतिविशेषः, स्मरणं स्मृतिः-पूर्वानुभूतार्थालम्बनप्रत्ययः, मननं मतिः-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मपर्यालोचनरूपा मतिरित्यर्थः / सर्वमिदमाभिनिबोधिकं मतिज्ञानमित्यर्थः। एवं किञ्चिझेदाद् भेदः प्रदर्शितः, परमार्थतस्तु सर्व एते मतिवाचकाः पर्यायशब्दाः, सम्प्रति नवभिरनुयोगद्वारैः पुनस्तद्रूपनिरूपणार्थमाह संतपयपरूवणया, दव्वपमाणं च खित्त फुसणा य / कालो अ अंतरं भाग, भावे अप्पाबहुं चेव // 13 // सच्च तत्पदं, तस्य प्ररूपणं-गत्यादिषु विचारणं सत्पदप्ररूपणं तद्भावः सत्पदप्ररूपणता, मतिज्ञानमिति यत्सत्पदं तस्य A गत्यादिभिः द्वारैः प्ररूपणमित्यर्थः, अथवा सद्विषयं पदं सत्पदं तदेव मतिज्ञानमितिरूपं पदं, मतिज्ञानस्य सत्त्वात्प्रक्रान्तत्वाच्च / नन्वसत्पदप्ररूपणेति (पणा किं क्रियते?,) क्रियते खरविषाणादेरसत्पदस्यापि ततः सद्भहणं, अथवा सन्ति च तानि पदानिस्थानानि सत्पदानि गत्यादीनि, तैः प्ररूपणं मतेः१। द्रव्यप्रमाणमिति जीवद्रव्यप्रमाणं वक्तव्यं, एकस्मिन्समये मतिज्ञानं कियन्तः प्रतिपद्यन्ते?, सर्वे वा कियन्त ? इति २।चः समुच्चये, क्षेत्रं वक्तव्यं, कियति क्षेत्रे मतिज्ञानं सम्भवति? 3 / स्पर्शना च वक्तव्या, कियत्क्षेत्रं मतिज्ञानिनः स्पृशन्ति? ननु क्षेत्रस्य स्पर्शनायाश्च कः प्रतिविशेषः ?, उच्यते, यत्रावगाहस्तत् क्षेत्रं, स्पर्शना तु बाह्यतोऽपि भवति, यथा परमाणुमधिकृत्योक्त-"एगपएसोगाहो (गासं खेत्तं) सत्तपएसा य से फुसणा (वि० 432) // " चः समुच्चये 4 / काल:-स्थितिलक्षणो मतेर्वाच्यः, चः पूर्ववत् 5 / [अन्तरं] एकदा प्रतिपद्य विमुक्तः कियता कालेन पुनरपि // 37 // आव० चू०४ EXX
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy