________________ आवश्यकनियुक्तेरव चूर्णिः .. // 36 // लोकभाषा भागव्याप्तिा मतेरेकार्थाः। गा. 12 वृत्तं छत्वरं सिद्धं भवति, तृतीयसमये तू‘धो व्यवस्थितदण्डाच्चतुर्दिकप्रसृतः पराघातवासितद्रव्यसमूहो मन्थानं साधयति, लोकमध्यव्यवस्थितसर्वतोरजुविस्तीर्णछत्वरादोधःप्रसृतः पुनः स एव त्रसनाडी समस्तामपि पूरयति / एवं च सति त्रसनाडी सर्वापि ऊर्द्धाधोव्यवस्थितदण्डमथिभावेन तदधिकं च लोकस्य पूरितं भवति, एतावच्च क्षेत्रं लोकस्य सङ्ख्याततमो भागः, तथा च | सति चतुःसामयिक्या व्याप्तेस्तृतीयसमयैर्लोकस्य सङ्ख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्याः सङ्ख्याततमो भाग इति / पञ्चसामयिक्यास्तु व्याप्तेस्तृतीयसमये लोकाऽसङ्ख्येयतमे भागे भाषाया असङ्ख्येयतमो भागः, तस्यां तस्य दण्डसमयत्वात् , | तत्र चोक्तप्रकारेणासङ्ख्येयभागवर्तित्वस्य भावादिति, चतुर्थे तु समये चतुःसामयिक्यां व्याप्ती मध्यान्तरालपूरणात्समस्तलोकव्याप्तिः पञ्चसामयिक्यां व्याप्तौ तु चतुर्थे समये लोकस्य मद्ध्येये भागे भाषायाः सङ्ख्येयो भागः, तस्यां तस्य मथिसम्भवात्तस्य च सधेयभागवर्त्तित्वस्य प्रागेव भावितत्वात् , पञ्चसामयिक्यां व्याप्ती मध्यान्तरालपूरणात् समस्तलोकव्याप्तिः, एतच्च महाप्रयत्नवक्तृनिसृष्टद्रव्यापेक्षया द्रष्टव्यं, मन्दप्रयत्नवक्तृनिसृष्टानि तु लोकासङ्ख्येयभाग एव वर्तन्ते, दण्डादिक्रमेण लोकापूरणासम्भवात् , त्रिसमयव्याप्तौ चतुःसमयव्याप्तौ [पञ्चसमयव्याप्तौ] च व्यादिषु समयेषु आपूरिते लोके लोकस्य चरमान्ते भाषाया अपि चरमान्तो भवति, किमुक्तं भवति ?-लोके निष्ठां गते भाषापि निष्ठां यातीति / 'तत्त्वभेदपर्यायैाख्येतिन्यायात् तत्त्वतो भेदतश्च मतिज्ञानस्वरूपमुक्तं, इदानीं नानादेशजविनेयगणसुखप्रतिपत्तये तत्पर्यायशब्दानभिधित्सुराह ईहा अपोह वीमंसा, मग्गणा य गवेसणा / सण्णा सई मई पण्णा, सव्वं आभिनिबोहियं // 12 // 'ईह चेष्टायां' ईहनमीहा-स्थाणुः वा पुरुषो वेति विचारणा-सतामर्थानामन्वयिनां व्यतिरेकिणां च पर्यालोचनेत्यर्थः, // 36 //