________________ शब्दद्रव्येण लोक आवश्यकनियुक्तेरव चूर्णिः // 35 // व्याप्तिः। गमनात्, पराघातद्रव्यान्तरवासकस्वभावकत्वाच्च द्वितीयसमये एव मन्थाननिष्पत्तिरिति / अचित्तमहास्कन्धोऽपि वैश्रसिकत्वा-1 त्पराघाताभावाच्चतुर्भिरेवापूरयति न चैवं शब्द इति / यदुक्तं 'लोकस्य च कतिभागे कतिभागो भवति भाषाया' इति, तत्रोत्तरमाह-लोकस्य च क्षेत्रगणितमपेक्ष्य चरमाम्ते असङ्ख्येयभागे चरमान्तोऽसङ्ख्येयभागो भवति भाषायाः। इयमत्र भावनात्रिसमयव्याप्तौ चतुःसमयव्याप्तौ पञ्चसमयव्याप्ती वा नियमेन प्रथमद्वितीयसमययोर्लोकाऽसङ्ख्येयभागे भाषाया असङ्ख्ये| यभागो भवति, तथाहि-त्रिसमयव्याप्तौ प्रथमे दण्डषट्क, ते च दण्डादयो यद्यपि दैर्येण लोकान्तस्पर्शिनः तथापि वक्तृमुख विनिर्गतत्वात्तत्प्रमाणानुसारतो बाहल्येन चतुरङ्गुलादिमाना भवन्ति, चतुरादीनि चाङ्गुलानि लोकासङ्ख्येयभागवतन्येवेति | त्रिसमयव्याप्ती आद्ययोः समययोर्लोकासङ्ख्येयभागे भाषाया असङ्ख्येयभागः, तथा चतुःसमयव्याप्तौ आये लोकमध्यमात्रप्रवेशो द्वितीये दण्डसमुद्भवः, पञ्चसमयव्याप्तौ तु आये भाषाद्रव्याणां विदिशो दिशि गमनं द्वितीये लोकमध्यमात्रप्रवेशो भवति इत्युभयत्राप्याद्ययोः समययोर्लोकासङ्ख्येयभागे भाषाया असङ्ख्येयः भागः। त्रिसमयव्याप्तौ तृतीयसमये तु सकललोकव्याप्तिः। चतुःसमयव्याप्तौ तृतीयसमये तु लोकसङ्ख्येयभागे भाषायाः सङ्ख्येयभागः, कथमिति चेदुच्यते, स्वयम्भूरमणपश्चिमपरतटवर्तिनि लोकान्ते त्रसनाड्या बहिर्वा पश्चिमदिशि स्थित्वा ब्रुवतो भाषकस्य चतुरङ्गुलादिबाहल्यो रज्जुदी? दण्डस्तिरश्चीनं गत्वा स्वयम्भूरमणपूर्वतटवर्तिनि लोकान्ते लगति, ततो द्वितीयसमये तस्माद्दण्डादूधिश्चतुर्दशरजूच्छ्रितः पूर्वापरतिरश्चीनतया रजुविस्तृतः पराघातवासितद्रव्याणां दण्डो निर्गच्छति, लोकमध्ये तु पराघातवासितद्रव्याणामेव चतुरङ्गुलादिबाहल्यं रज्जुविस्तीर्ण दण्डद्वयं विनिर्गत्य स्वयम्भूरमणदक्षिणोत्तरवर्तिलोकान्तयोलगति, एवं च सति चतुरङ्गुलादिबाहल्यं सर्वतो रज्जुविस्तीण लोकमध्ये जो पश्चिमाविषयमागे असलयेयः भार // 35 //