SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः त्रिसमयादिना भाषया. लोकव्याप्तिः। // 34 // नात्, द्वितीयसमये तु त एव हि षट् दण्डाश्चतुर्दिक्षु एकैकशोऽनुश्रेण्या वासितद्रव्यैः प्रसरन्तः षड् मन्थाना भवन्ति, तृतीयसमये तु पृथक् पृथक् तदन्तरालपूरणात्पूर्णो भवति लोकः, एवं त्रिभिः समयैः भाषा(षया) लोकः स्पृष्टो भवति / यदा तु स्वयम्भूरमणपरतटवर्तिनि लोकान्ते अलोकस्य निकटीभूय त्रसनाड्या(ड्या वा) बहिश्चतसृणां दिशामन्यतमस्यां दिशि व्यवस्थितो भाषको | वक्ति तदा चतुर्भिः समयैरापूर्यते, कथं ?, [उच्यते,] एकेन समयेनान्तर्नाडि शब्दद्रव्याण्यनुप्रविशन्ति, तदा वाम 1 दक्षिण 2 पृष्ठोर्दा 3 धोदिशां 4 अलोकेन स्खलितत्वात् , शेषसमयत्रयभावना पूर्ववत् / यदा तु त्रसनाड्या बहिर्विदिकस्थितो भाषको वक्ति तदा पुद्गलानामनुश्रेणिगमनात् प्रथमसमयेन विदिशो दिशि गमनं, द्वितीये तु नाड्यन्तःप्रवेशः, शेष समयत्रयं पूर्ववदित्येवं पञ्चभिः समयैः सकललोकपूरणं / अत्र च त्रिसमयपक्षे च ये अनुश्रेणिव्यवस्थिता निष्कुटास्त एव पूर्यन्ते, वक्रनिष्कुटपूरणं तु न बुध्यत एव, स्वल्पत्वाच्च न विवक्षितमिति लक्ष्यते। अन्ये तु जैनसमुद्घातगत्या लोकापूरणमिच्छन्ति, तेषां चाद्यसमये भाषायाः खलुधिोगमनाच्छेषदिक्षु मिश्रशब्दश्रवणसम्भवः / उक्तं चाविशेषणं (चाविशेषण) 'भाषासमसेढीओ सई जं सुणइ मीसयं सुणईत्ति (गा. 6), अथ मतं-'व्याख्यानतोऽर्थप्रतिपत्ति'रिति न्यायाद्दण्ड एव मिश्रश्रवणं भविष्यति, न शेषदिक्षु, ततश्चादोष इति, अत्रोच्यते, एवमपि त्रिभिः समयर्लोकापूरणमापद्यते, न चतुःसमयसम्भवोऽस्ति, कथं ?, प्रथमसमयानन्तरमेव शेषदिक्षु पराघातद्रव्यसद्भावात् द्वितीयसमय एव मन्थानसिद्धेः, तृतीये च तदन्तरालपूरणादिति / ननु जैनसमुद्घातवच्चतु-1 भिरेवाऽऽपूरणं भविष्यतीति को दोषः?, उच्यते, न, सिद्धान्तापरिज्ञानात् , जैनसमुद्घाते हि स्वरूपेण पूरणात् न तत्र पराघातद्रव्यसम्भवोऽस्ति, सकर्मकजीवव्यापारत्वात्तस्य, ततश्च तत्र द्वितीयसमये कपाटनिवृत्तिरेव, शब्दद्रव्याणां त्वनुश्रेणि BOX**888882 // 34 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy