SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव भाषालोक। भागे प्रश्नोत्तरौ। गा.१०-११ चूर्णिः // 33 // कइहि समएहि लोगो, भासाइ निरंतरं तु होइ फुडो। लोगस्स य कहभागे, कइभागो होइ भासाए // 10 // कतिभिः समयैर्लोक्यत इति लोकश्चतुर्दशरज्वात्मकः क्षेत्रलोकः परिगृह्यते, भाषया निरन्तरमेव भवति स्पृष्टो-व्याप्तः पूर्ण इत्यनन्तरं, लोकस्य च कतिभागे कतिभागो भवति भाषायाः?, अत्रोच्यते चउहि समएहि लोगो, भासाइ निरंतरं तु होइ फुडो। लोगस्स य चरमंते चरमंतो होइ भासाए // 11 // चतुर्भिः समयैर्लोको भाषया निरन्तरमेव भवति स्पृष्टो-व्याप्तः किं सर्वयैव भाषया उत विशिष्टया ?, उच्यते, विशिष्टया, केयं-इह कश्चिद्वक्ता मन्दप्रयत्नो भवति कश्चिन्महाप्रयत्नः, तत्राद्यो यथारूपाणि शब्दद्रव्याणि गृहीतवांस्तथारूपाण्येवामिन्नान्युपजातमन्दशब्दपरिणामानि निसृजति, तानि च तथानिसृष्टानि मन्दप्रयत्ननिसृष्टत्वात् परिस्थूराणि, अत एव तदन्यद्रव्यवासनोत्पादपाटवरहितानि असङ्खयेयखण्डशो भिद्यन्ते, भिद्यमानानि च सङ्ख्येयानि योजनानि गत्वा शब्दपरिणामं विजहति, यस्तु महाप्रयत्नो वक्ता स खल्वादानप्रयत्नेनापि भित्त्वैव गृह्णाति, गृहीत्वा व शब्दपरिणाममपि तेषामुत्कटमुत्पादयति, उत्पाद्य च निसर्गप्रयत्नेन भूयो भित्त्वा निसृजति, तानि च तथानिसृष्टानि सूक्ष्मत्वादतिप्रभूतत्वादत्युत्कटशब्दपरिणामाच्च (मत्वाच्च) तदन्यानि | बहूनि द्रव्याणि वासयन्ति तदन्यद्रव्यवासकतया षट्सु दिक्षु अनन्तगुणवृद्ध्या परिवर्द्धमानानि लोकान्तमाप्नुवन्ति, शेषं लोकं तु तत्पराघातवासितानि द्रव्याण्यापूरयन्ति / इह चतुःसमयग्रहणे त्रिपञ्चसमयग्रहणमपि प्रत्येतव्यं, तुलादीनां मध्यग्रहणे आद्यन्तग्रहणवत् / कथं त्रिभिः समयैर्लोको भाषया निरन्तरमेव भवत्यापूरितः ?, उच्यते, इह यदा लोकमध्यस्थो वक्ता भवति तदा तेन निसृष्टानि भाषापरिणतानि द्रव्याणि प्रथमसमय एव पदिक्षु लोकान्तमनुधावन्ति, 'जीवसूक्ष्मपुद्गलयोरनुश्रेणिगति रितिवच परिस्थराणिस्तथारूपाण्येवा र सञ्चयेयानिय त्वव गृह्णाति // 33 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy