________________ आवश्यकनियुक्तेरव वाचःसत्यादिभेदाः। चूर्णिः // 32 // इहौदारिकशब्देन शरीरतद्वतोरभेदोपचारात् मत्वर्थीयलोपाद्वा औदारिकशरीरवान् जीव एव गृह्यते, एवं वैक्रियवान् वैक्रियः आहारकवानाहारकः, असावौदारिकादिर्ग्रहाति आदत्ते शब्दप्रायोग्यानि द्रव्याणीति गम्यते, गृहीत्वा भाषात्वेन परिणमय्य मुश्चति-निसृजति भाषां शब्दपरिणतद्रव्यसंहति, किंविशिष्टामित्याह-'सत्यां' सन्तो मुनयस्तेषामेव मुक्तिमार्गप्रवृत्ततया तात्त्विकशिष्टत्वात् तेभ्यो हिता निरवद्यानुष्ठानरूपतया मुक्तिमार्गानुकूलत्वादुपकारिणी सत्या, यत् यस्मै हितं तत्तत्र साध्विति, तत्र साधौ यः प्रत्ययः, अथवा सन्तः-मूलोत्तरगुणास्तेषामेव मुक्तिमार्गतया अतिप्रशस्यत्वात् तेभ्यो हिता तदाराधनात् , यद्वा सन्तः-जीवादयः पदार्थास्तेभ्यो हिता यथावस्थिततत्स्वरूपप्रत्यायकत्वात् , यथा अस्ति जीवः सदसद्रूपो देहमात्रव्यापीत्यादिरूपा, तद्विपरीताऽसत्या, यथा नास्ति जीवोऽस्ति चेत्तदा एकान्तसप इत्यादि / सत्यामृषा यथा धवखदिरपलाशादिमिश्रेषु बहुष्वशोकवृक्षेषु अशोकवनमेवेदमित्यादिरूपा, तत्राशोकतरूणां सद्भावात्सत्यता अन्येषामपि धवादीनां सद्भावान्मृषता, या न सत्या नापि मृषा सा असत्यामृषा, हे देवदत्त! घटमानय गां देहि मह्यमित्यादिरूपा, इयं हि स्वरूपमात्रप्रतिपादनफलत्वान्न यथोक्तलक्षणा सत्या नापि मृषा, ततोऽसत्यामृषा, आसां च स्वरूपमुदाहरणयुक्तं प्रज्ञापनासूत्रादवसातव्यं // ननु औदारिकादिर्गृह्णाति | मुश्चति च भाषामित्युक्तं, तत्र (ततः सा) मुक्ता सती उत्कर्षतः कियत् क्षेत्रं व्याप्नोति ?, उच्यते, समस्तमेव लोकं, यद्येवं तर्हि 'कइहि इत्यादि, अयं सूत्रतः सम्बन्धः अथवा अर्थतः-ननु द्वादशभ्यो योजनेभ्यः परतो न शृणोति शब्दं, मन्दपरिणामत्वात्तद्रव्याणामित्युक्तं, तत्र किं परतोऽपि द्रव्याणामाऽऽगतिरस्ति ?, यथा च विषयाभ्यन्तरे नैरन्तर्येण तद्धासनासामर्थ्य, एवं बहिरप्यस्ति उत नेति, उच्यते-अस्ति केषाञ्चित्कृत्स्नलोकव्याप्तेः, यद्येवं तर्हि // 32 //