________________ आवश्यकनियुक्तेरव त्रिविधश रीरेण ग्रहणं चूर्णिः // 31 // वाचश्च सत्यादिमेदाः गा.८-९ *38*28488. न भवतः 'जुगवं दो नत्थि उवओगा' इति वचनात् , क्रियास्तु बढ्योऽपि घटन्त एव, कायवाङ्मनःक्रियाणामेकस्मिन्नपि समये युगपत्प्रवृत्तिदर्शनात्। यदुक्तं 'गृह्णाति कायिकेन चेत्यादि, तत्र कायिको योगः पञ्चधा-औदारिक 1 वैक्रिय 2 आहारक 3 तैजस 4 कार्मण 5 भेदात् , ततः किं पञ्चप्रकारेणापि कायिकेन गृह्णाति आहोस्विदन्यथेत्याशङ्कासम्भवे तदपनोदार्थमाह तिविहंमि सरीरंमि, जीवपएसा हवंति जीवस्स / जेहि उ गिण्हइ गहणं, तो भासइ भासओ भासं // 8 // त्रिविधे त्रिप्रकारे शरीरे औदारिकवैक्रियाहारकाणामन्यतरस्मिन्नित्यर्थः, जीवति-प्राणान् धारयति इति जीवः तस्य प्रदेशा जीवप्रदेशा भवन्ति, इत्थमुच्यमाने भिक्षोः पात्रमित्यादौ षष्ठया भेदेऽपि दर्शनात् मा भूद्भिन्नप्रदेशतया शिष्याणामप्रदेशात्मसम्प्रत्यय इत्यत आह-जीवस्येति जीवस्यात्मभूता भवन्ति, अनेन निष्प्रदेशजीववादनिराकरणमाह, सति निष्पदेशत्वे करचरणोरुग्रीवाद्यवयवसंसर्गाभावप्रसक्तेः। यैर्जीवप्रदेशैः किं करोत्यत आह-यैस्तु गृह्णाति, तुशब्दो विशेषयति, न सर्वदैव गृह्णाति, गृह्यत इति ग्रहणं शब्दद्रव्यसमूहमित्यर्थः, ततो गृहीत्वा 'भाषते' वक्ति भाषक इति, भाषको भाषणक्रियाविशिष्ट इत्यर्थः, अनेन निष्क्रियात्मवादव्यवच्छेदमाह, सति तस्मिन्निष्क्रियत्वेनाप्रच्युतानुत्पन्नस्थिरैकरूपत्वात् भाषणाभावप्रसक्तेः / किं भाषत इत्याह-भाष्यत इति भाषा तां, ननु ततो भाषते भाषक इत्यनेनैव गतार्थत्वादापाग्रहणमतिरिच्यते, न अभिप्राया. परिज्ञानात्, इह भाष्यमाणैव भाषोच्यते न पूर्व नापि पश्चादित्यस्यार्थस्य ख्यापनाय भाषाग्रहणमदुष्टमेवेति / यदुक्तं त्रिविधं शरीरं यद्गतैर्जीवप्रदेशैः वाग्द्रव्याणि गृहीत्वा भाषको भाषक इति, तत्र न ज्ञायते कतमत्तत्रैविध्यमिति तदभिधातुकाम आह ओरालियवेउब्बियआहारो गिण्हई मुयइ भासं / सचं मोसं सच्चामोसं च असचमोसं च // 9 // XBEISSSSSSSSSS. // 31 //