________________ आवश्यकनियुक्तेरव चूर्णिः सामायिककरणानुयोगद्वाराणि भा० गा० 179-180 // 439 // गुरोरात्मदोषप्रकाशनम्-आलोचनानयः, विनयश्च पादधावनानुरागादिः, क्षेत्रमिक्षुक्षेत्रादि, दिगभिग्रहश्च वाच्यः, अभिव्याहारश्चाष्टमो नयः // 17 // आद्यद्वारमाहपवजाए जुग्गं तावइ आलोयणं गिहत्थेसुं। उवसंपयाइ साहुसु सुत्ते अत्थे तदुभए अ॥१७९॥(प०१)(भा०) प्रव्रज्याया यत्प्राणिजातं योग्यमनुरूपं तदन्वेषणं, तावत्येवाऽऽलोचनाऽवलोकना वा, गृहस्थेषु गृहस्थविषये, ततः प्रयुक्तालोचनस्य योग्यताऽवधारणानन्तरं सामायिकं दद्यान्न शेषाणां प्रतिषिद्धदीक्षाणामिति नयः, एवं गृहस्थस्याकृतसामायिकस्य सामायिकार्थमालोचनोक्ता, कृतसामायिकस्य यतेराह-उपसम्पदि साधुष्वालोचनेति वर्त्तते, सूत्रेऽर्थे तदुभये च, सामायिकसूत्राद्यर्थ यदा कश्चिदुपसम्पदं प्रयच्छति यतिस्तदाऽसावालोचनां ददाति, अत्र विधिः सामाचार्यामुक्त एव, मन्दग्लानादिव्याघाताद्विस्मृतसूत्रस्य यतेः सूत्रार्थमुपसम्पदविरुद्धैव // 179 // विनयादिद्वारत्रयमाह आलोइए विणीअस्स दिजए तं (पडि 2) पसत्थखित्तंमि / (प०३) अभिगिज्झ दो दिसाओ चरंतिअं वा जहाकमसो // 180 // (प०४) (भा०) आलोचिते सति, अभिगृह्याङ्गीकृत्य, तथा चरन्ति यस्यां दिशि तीर्थकरादयो विहरन्ति तमभिगृह्य दीयते, न यत्र तत्र कचित् , किं तर्हि !, 'प्रशस्तक्षेत्रे', इक्षुक्षेत्रादाविति, अत्राप्युक्तं अणुरत्तो भत्तिगओ अमुई अणुयत्तओ विसेसण्णू / उजुत्तगऽपरितंतो इच्छियमत्थं लहइ साहू // 1 // // 439 //