________________ आवश्यक नियुक्तेरव सामायिककरणानुयोगद्वाराणि भा० गा० 176-178 // 438 // तं केसु कीरई तत्थ नेगमो भणइ इट्ठदवेसु / सेसाण सबदसु पज्जवेसुं न सवेसुं // 176 // (दा० 3) (भा०) . इष्टद्रव्येषु मनोज्ञपरिणामकारणत्वान्मनोज्ञेष्वेव शयनासनादिद्रव्येषु स्थितस्य सतः क्रियते इति नैगमनयो मन्यते, शेषनयाः सङ्ग्रहादयः परिणामविशेषात्कस्य किञ्चिन्मनोज्ञमिति व्यभिचारात् , सर्वद्रव्येषु स्थितस्य क्रियते यत्र मनोज्ञपरिणाम इति मन्यन्ते, पर्यायेषु न सर्वेषु, यो यत्र निषद्यादौ स्थितो न स तत्र तत्सर्वपर्यायेषु, एकभाग एव स्थितत्वात् / ननु सर्वद्रव्यावस्थानं कथं ?, आह-जातिमात्रग्रहणाद् धर्मादिसर्वद्रव्याधारः सर्वो जनः // 176 // काहु ? उद्दिढे नेगम उवहिए संगहो अववहारो। उजुसुओ अक्कमंते सहु समत्तंमि उवउत्तो॥१७७॥(दा०४)(भा०) कदाऽसौ सामायिकस्य कारकः स्यादिति प्रश्ने सति नैगमो मन्यते उद्दिष्टमात्रे एव सामायिके गुरुणा शिष्योऽनधीयानोऽपि तक्रियाननुष्ठायी सन् सामायिकस्य कर्त्ता वनगमनप्रस्थितप्रस्थककर्तृवत् , यस्मादुद्देशोऽपि तस्य कारणं सामायिकस्य, सङ्ग्रहो व्यवहारश्च मन्यते उपस्थितः सन् सामायिकस्य कारकः, उद्देशानन्तरं वाचनाप्रार्थनाय यदा वन्दनं दत्त्वोपस्थितः स्यात्तदा / ऋजुसूत्र आक्रामन् उपस्थितः सामायिकं पठितुमारब्धः कारकः / वृद्धास्त्वाहुः-न पठन्नेव किन्तु समाप्तेः कारक: सामायिकक्रियां वा प्रतिपद्यमानस्तदुपयोगरहितोऽपि कारकः, शब्दादयो मन्यन्ते-समाप्ते सत्युपयुक्त एव कारकः // 177 // नयत इत्येतदाह आलोअणा य 1 विणए 2 खित्त 3 दिसाऽभिग्गहे अ 4 काले 5 / रिक्ख 6 गुणसंपया वि अ७ अभिवाहारे अ८ अट्ठमए // 178 // (दा०५)(भा०) // 438 //