SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ करणनि बावश्यकनियुक्तेरव क्षेपाः चूर्णिः भा० गा० 165 // 431 // उत्कृष्टं तु संघातपरिशाटकरणकालमानमौदारिकमाश्रित्य पल्योपमत्रितयमेव समयोनं, ननु यथा पल्योपमत्रयात्सर्वसंघातसमयोऽपनीयते तथान्त्यसमयभावी सर्वपरिशाटसमयोऽप्यपनेयोऽतो द्विसमयहीनकालोऽत्र प्राप्नोति, उच्यते-योऽसौ | भवान्त्यसमयस्तस्मिन्नुभयं समुदितमेव प्रवर्त्तते, यस्तु केवलपरिशाटः स परभवसमय एव, नन्वेवमृजुश्रेण्यैवोत्पद्यमानस्याद्य- समये सर्वपरिशाटः सर्वसंघातश्चेति द्वयं विरुद्धं, निश्चयनयमतेन प्राग्भवायुःपुद्गला अपनीयमाना अपगता एव द्रष्टव्याः न तेषां तदानुभूयमानताऽस्ति / संघातपरिशाटयोस्तुएक एव समयः / संघातादिविरहमाह-विरहः कः?, अन्तरकालः, औदारिके | तस्य संघातादेरयं // 164 // तिसमयहीणं खुई होइ भवं सव्वबंधसाडाणं / उक्कोस पुवकोडी समओ उअही अ तित्तीसं॥१६५॥ (भा०) त्रिसमयहीनं क्षुल्लं, भवमिति भवग्रहणं, सर्वबन्धशाटयोरन्तरकालः, तत्र त्रिसमयहीनं सर्वबन्धस्य, क्षुल्लं तु सम्पूर्ण सर्वशाटस्य, गुरवस्तु व्याचक्षते-तदारम्भसमयस्य पूर्वभवशाटेनावरुद्धत्वात् , समयहीनं क्षुल्लभवग्रहणं जघन्यं शाटान्तरं, तथा च एवमक्षराणि नीयन्ते-'त्रिसमयहीनं क्षुल्लकं, भावार्थोऽयं-द्वौ समयौ विग्रहे तृतीयः संघातसमयस्तैरूनं क्षुल्लं सर्वबन्धयोरन्तरं जघन्यं, सर्वशाटयोस्तु क्षुल्लकमन्त्येनैव सर्वशाटसमयेन न्यूनं, उत्कृष्टं तु संघातान्तरं त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोट्यैकसमयाधिकानि एव, अविग्रहेणेह संघातं कृत्वा पूर्वकोटिं सुरज्येष्ठायुष्कं, च भुक्त्वेह तृतीयसमये संघातं कुर्वतः, सर्वशाटान्तरं त्रयस्त्रिंशत्सागरोपमाणि समयोनपूर्वकोट्यधिकानि, कश्चित्संयत औदारिकसर्वशाटं कृत्वा अनुत्तरसुरेषु त्रयस्त्रिंशत्सागराण्यतिवाह्य पुनर्मनुष्येषु औदारिकसर्वसंघातं कृत्वा पूर्वकोव्यन्ते औदारिकसर्वशाट करोति // 165 // उभयरूपमाह C ||431 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy