________________ आवश्यकनियुक्तेरव चूर्णिः // 441 // नमस्कार नियुक्तिः नि० गा. 955 KEXXXXXXXXXXXXXXX यायन् शरीरप्रदेशसम्बद्धा मनःपर्याप्तिनिवृत्तिर्यया पूर्व मनोद्रव्यग्रहणं कृत्वा भावमनः प्रयुक्तवांस्तत्कर्म[संयोग]विघटनाय मन्त्रसामर्थ्येन विषमिव स भगवाननुकृत्वाऽवष्टम्भेनैव (भगवाननुत्तरेणाचिन्त्येन निरावरेण करणवीर्येण तद्व्यापारं) निरुणद्धि अन्यस्यावष्टम्भनीयस्य योगान्तरस्य तदा असत्वात् / तद्ध्यानसामर्थ्याच्च वदनोदरादिविवरपूरणेन सङ्कुचितदेहत्रिभाग वर्तिप्रदेशो भवति / ततः समुच्छिन्नक्रियमप्रतिपातिशुक्लध्यानं ध्यायन् मध्यमप्रतिपत्त्या हस्वपञ्चाक्षरोद्गिरणमात्रकालं शैलेशीकरणं प्रविशति इति समासार्थः। विस्तरार्थश्चायं-स हि योगनिरोधं कुर्वन् प्रथममेव याऽसौ शरीरप्रदेशसम्बद्धा मनःपर्याप्तिनिर्वृत्तिर्यया पूर्व मनोद्रव्यग्रहणं कृत्वा भावमनः प्रयुक्तवांस्तत्कर्मविघटनाय मन्त्रसामर्थ्येन विषमिव स भगवाननुत्तरेणाचिन्त्येन निरावरणेन करणवीर्येण तद्व्यापार निरुणद्धि, अयमर्थः स हि भगवान् केवली योगत्रयनिरोधं चिकीर्षुर्विषमिव मत्रेण प्रथममेव तावत्तद्व्यापार निरुणद्धीति सम्बन्धः, तस्य मनःपर्याप्तिनिवृत्तिः शरीरसव्यापेक्षजीवस्य मनोद्रव्यग्रहणशक्तिरूपा ययाऽसौ बाह्यघटादिवस्तुचिन्तनरूपो व्यापारः प्रथमं तावत्तं निरुणद्धीत्यर्थः, केन कृत्वेत्याह-अनुत्तरेणेत्यादि विशेषणविशिष्टं किल सिद्धा नामपि वीर्य भवति, तद्व्यवच्छेदार्थमाह-करणवीर्येणेति सशरीरजन्तुवीर्येणेत्यर्थः तस्या व्यापार निरुणद्धि या किमित्याहयासौ शरीरेत्यादि, पुनस्तामेव विशेषयति, यथा पूर्वमित्यादि, किमर्थ पुनस्तद्व्यापार निरुणद्धीत्याह-तस्या मनःपर्याप्तिनिवृत्तेर्यकारणभूतं कर्म तेन जीवस्य यः संयोगस्तद्विघटनाय, न ह्यविकले तत्कारणभूते मनःपर्याप्तिनामकर्मणि तत्कार्यभूताया | मनोद्रव्यग्रहणशक्तेर्निरोधः कर्तुं शक्य इति भावः / अथ मनोव्यापारादिनिरोधकः क्रम इत्याह (धक्रम आह)-'पजत्तमित्तसन्निस्स जत्तियाई जहन्नजोगिस्स / होति मणोदव्वाई तव्वावारो य जम्मत्तो // 1 // तदसंखगुणविहीणं समए समए Skkk******kkkkkkkkkkk // 414 //