________________ आवश्यक निर्युक्तेरव चूर्णिः XX**** नमस्कारनियुक्तिः नि० मा० // 415 // **************** निरंभमाणो सो / मणसो सम्वनिरोहं करेजऽसंखिजसमएहिं // 2 // गाथाद्वयस्य व्याख्या-पर्याप्तिसमर्थनोत्तरकालमेव जघन्ययोगिनः संज्ञिनो यावन्ति मनोवर्गणादलिकानि तद्व्यापारश्च मनोद्रव्यव्यापारश्च चिन्तनीयानुकूलचेष्टालक्षणो यावान् भवति केवलिनोऽपि शैलेश्यवस्थाप्राप्तिसमये तावन्ति मनोद्रव्याणि तद्व्यापारश्च तावानेव भवति, इदमुक्तं भवति-शैलेशीमारुरुक्षुः केवली प्रथममेवाचिन्त्यसामर्थ्यवीर्यविशेषाज्झगित्येव पर्याप्तमात्रजघन्ययोगिसंज्ञिपश्चेन्द्रियमनोयोगतुल्यं मनोयोगं धरति, ततश्च तस्मादवशिष्यमाणमनोयोगादसङ्ख्येयगुणविहीनं प्रतिसमयं निरन्धानोऽसङ्ख्येयसमयैः सर्वमपि मनोयोगं निरुणद्धि, अवशिष्यमाणमनोयोगात् प्रतिसमयमसङ्ख्येयं भागमपनयन्नसङ्ख्येयसमयैः सर्वमपि मनोयोगं निरुणद्धीत्यर्थः तथा-"पज्जत्तमेत्तबेंदिअजहन्नवइजोगपज्जया जे य / तदसंखगुणविहीणे समए समए निरंभंतो // 3 // सव्ववइजोगरोहं संखाईएहिं कुणइ समएहिं / तत्तो अ सुहुमपणयस्स पढमसमयोववन्नस्स // 4 // जो किर जहन्नजोगो तदसंखेजगुणहीणमेक्किक्के / समए निरंभमाणो देहतिभागं च मुंचंतो॥५॥ रुंभइ स कायजोगं संखाईएहिं चेव समएहिं / तो कयजोगनिरोहो सेलेसीभावणामेइ // 6 // " एवं वाग्योगमपि विशिष्टवीर्यविशेषात्पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगतुल्यं प्रथममेव विधृत्य तथा काययोगमपि प्रथमतयोत्पन्नसूक्ष्मपनकजघन्यकाययोगतुल्यं विधृत्य ततस्तदसवयेयगुणविहीनं प्रतिसमयं रुन्धानो असङ्ख्येयसमयैः सर्ववाग्योगं देहविभागं च मुञ्चन् सर्वकाययोगं निरुणद्धि, निरुध्य शैलेशीकरणं प्रतिपद्यते इति गाथाचतुष्टयतात्पर्यार्थः। तत्र शिलाभिनिवृत्तः शिलानां वायमित्यण शैलः-पर्वतः तेषामीशः-प्रभुः शैलेशः, स च मेरुः, तस्येवेयं स्थिरता साम्यावस्था शैलेशी, अथवा-अशैलेशः सन्नभूततद्भावाच्छैलेशवदाचरति शैलेशीभवतीत्यध्याहारः, अथवा सर्वसंवरः शीलं तस्येशः, / 415 //