________________ आवश्यकनियुक्तेरव | नमस्कारनियुक्तिः सिद्धनिक्षेपाः नि० गा० चूर्णिः // 410 // 951 अहीन्मारयेति, क्षपकाहित्वा नागदत्तः पुत्रो जाति स्मृत्वा प्रवजितो बहुक्षुधो रोषाभिग्रही कुरगडुकोऽभवत् / एकद्वित्रिचतुर्मासक्षपकानतिक्रम्य देवता तं भावक्षपकं ननाम, पञ्चापि सिद्धाः 10 / अमात्यपुत्रो वरधनुस्तस्य धीर्मातृमोचनादिषु 11 / चाणक्येन देवतादत्तपाशकैजनं क्रीडयित्वा कोशः कृतः 12 / स्थूलभद्रोऽमात्यपदव्यर्थमाकारितो विमृश्य दीक्षा जग्राह 13 / नाशिक्यपुरे नन्दो वणिक् सुन्दरी भार्या अतः सुन्दरीनन्दो अभिधेयं, तद्भात्रा प्रवजितेनाऽऽगत्य भाजनार्पणेनोद्यानं नीतः, सुन्दरीरागित्वान्नेच्छति दीक्षा, देववन्दनाय मेरु नयता साधुना वानरीविद्याधरीदेवीदर्शनेन प्रतिबोध्य दीक्षितः 14 / वज्रस्वामिना माता नानुवर्त्तिता मा सङ्घस्यावज्ञा 15 / 'चलणाहए' राजा तरुणैर्युद्राह्यते यथा स्थविराः कुमाराश्चापनीयन्तां, | परीक्षायै राज्ञोक्तं-यो राज्ञः शिरः पादेनाहन्ति तस्य को दण्डः ?, तरुणैरुक्तं तत्पादच्छेदः, स्थविरैर्विचिन्त्योक्तं सत्कार्यः, एवंकी देव्येवेति, वृद्धाः सत्कृताः अन्ये न्यकृताः 16 / 'आमंडे'त्ति-आमलकमेकेन कृत्रिमं ज्ञातमतिकठिनत्वादकालजातत्वाच्च 17 / 'मणि'त्ति-सर्पः पक्षिणामण्डकानि वृक्षमारुह्य अत्ति गृध्रुण हतः, मणिरधः कूपे पतितः, नीरं रक्तं जातं, बहिःकृष्टं | स्वाभाविकं स्यात् (भवति), दारैरुक्ते स्थविरेण ज्ञात्वा प्रतिवेश्य (प्रविश्य) गृहीतः 18 / सर्पश्चण्डकौशिकश्चिन्तयति ईदृशो महात्मा इत्यादि 19 / श्रावकपुत्रो धर्ममकृत्वा अरण्यखड्गी सञ्जातः, अटव्यां जन मारयति, अन्यदा साधून दृष्ट्वा जातिं स्मृत्वा प्रत्याख्याते स्वर्गतः 20 / वैशाल्यां श्रीमुनिसुव्रतस्तूपः कूलवालेन पातितः 21 / 'इंद'त्ति एकत्र पुरं न पतति, चाणक्यस्त्रिदण्डीभूय प्रविष्ट इन्द्रकुमारिका दृष्ट्वा ज्ञातं तत्प्रभावेन न पतति, मायया ता उत्पादिताः पुरं गृहीतं 22 // 951 // उक्तोऽभिप्रायसिद्धः, तपःसिद्धमाह- . // 410 //