________________ आवश्यकनियुक्तेरव चूर्णिः / नमस्कारनियुक्तिः नि०निगा० 952-954 // 411 // न किलम्मइ जो तवसा सोतवसिद्धो दढपहारिव्व। सो कम्मक्खयसिद्धो जो सव्वक्खीणकम्मंसो॥९५२॥ दृष्ट(ढ)प्रहारी दीक्षां प्रत्यभिग्रहवात् (गृहीतः) सिद्धः॥ 952 // कर्मक्षयसिद्धमेव प्रपञ्चत आहदीहकालरयं जं तु कम्मं से सिअमट्ठहा / सिअंधतंति सिद्धस्स सिद्धत्तमुवजायइ // 953 // दीर्घः सन्तानापेक्षयाऽनादित्वात् स्थितिबन्धकालो यस्य तद्दीर्घकालं, तच्च जीवानुरञ्जनाद्रजश्च तत्तथा, यत्कर्म श्लेषितमात्मनात्मप्रदेशेषु योजितमष्टधा कर्म सितं-पूर्वबद्धं ध्मातं-दग्धमिति निरुक्त्या सिद्धस्य सिद्धत्वमुपजायते // 953 // नाऊण वेअणिजं अइबहुअं आउअंच थोवागं / गंतूण समुग्घायं खवंति कम्मं निरवसेसं // 954 // ज्ञात्वा केवलेनावगम्य, किं?-वेदनीयं कर्म, किम्भूतं ? 'अतिबहुकं' शेषभवोपग्राहिकर्मापेक्षया अतिप्रभूतमित्यर्थः, तथाऽऽयुष्कं च कर्म 'स्तोक' अल्पं तदपेक्षयैव ज्ञात्वेति वर्तते, अत्रान्तरे 'गत्वा' प्राप्य 'समुद्धातं' इति सम्यग्-अपुनर्भावेन उत्-प्राबल्येन कर्मणो हननं घातः-प्रलयो यस्मिन् प्रयत्नविशेषे असौ समुद्धातस्तं, 'क्षपयन्ति' विनाशयन्ति 'कर्म' वेदनीयादि, निरवशेषमिव निरवशेष प्रभूतक्षपणाच्छेषस्य चान्तर्मुहूर्त्तमात्रकालावधित्वात्, किञ्चिच्छेषत्वादसत्त्वमित्यर्थः / ननु 'ज्ञात्वा | वेदनीयमतिबहु' इत्यत्र को नियमो येन तदेव बहु तथा आयुरेवाल्पमिति, अत्रोच्यते, वेदनीयस्य सर्वकर्मभ्यो बन्धकालबहुत्वात्केवलिनोऽपि तद्वन्धकत्वात् आयुष्कस्य चाल्पत्वात् , उक्तं च-'जाव णं अयं जीवे एयइ वेयइ चलइ फंदइ ताव णं अट्ठविहबंधए वा सत्तविहबंधए वा छविहबंधए वा नो णं अबंधए' त्ति, आयुष्कस्य त्वन्तर्मुहूर्तिक एव बन्धकालः, उक्तं च-"सिअ तिभागे सिअ तिभागतिभागे” इत्यादि, इति गाथार्थः // 954 // इदानीं समुद्धातादिस्वरूपप्रतिपादनायैवाह ** ****** // 411 // **