________________ आवश्यक नियुक्तेरव चूर्णिः पारिणामिक्या: लक्षणं उदाहरणानि च नि० गा० 949-951 // 408 // अभए 1 सिट्टि 2 कुमारे 3 देवी 4 उदिओदए हवइ राया 5 / साहू अनंदिसेणे 6 धणदत्ते 7 सावग अमचे // 949 // खवगे 10 अमच्चपुत्ते 11 चाणक्के 12 चेव थूलभद्दे अ१३ / नासिकसुंदरी नंदे 14 वइरे 15 परिणामिआ बुद्धी॥९५०॥ चलणाहय१६ आमंडे १७मणी अ१८ सप्पे अ१९खग्गि२० थूभिं२१ दे२२॥ परिणामिअबुद्धीए एवमाई उदाहरणा९५१ प्रद्योतेन गणिकोपायेन बद्धवानीतस्याभयस्य वरचतुष्कयाचने मुक्तस्य दिवा रटतश्चण्डप्रद्योतस्य नयने पारिणामिकी 1 / 'सिवित्ति-भोगपुरे काष्ठश्रेष्ठी वज्रा भार्या सुतो गजः सुहृद्देवशर्मा द्विजः, सारिकाशुककुर्कुटपक्षित्रयं, श्रेष्ठी प्रोषितः, वज्रा देवशासक्ता, अनाचाराऽसहिष्णां सारिका हतवती, कुर्कटमञ्जरिभोक्ता राट् स्यादिति साधुवाचं श्रुत्वा विप्रः सर्वमकारयत्, तावत्पुत्रेण लेखशालाऽऽगतेन भुक्तं, विप्रेण मञ्जर्यदर्शने सुतव्यापादनमन्त्रे कृते श्रुत्वा धात्री नीत्वा नष्टा सुतः क्वापि पुरे नृपोऽभूत्, श्रेष्ठिनाऽऽगतेन शुकाद् ज्ञातवृत्तान्तेन निष्क्रान्त्वा चतुर्मासी स्थितो नृपं बोधितवान् , धिग्जातिभिरेका स्त्रीर्मुर्विण्युत्थापिता, साधोः सत्यश्रावणया गर्भोऽपत् सा मृता श्रेष्ठिमुनिः तत्र गतः यत्र सुतो राट्, भार्याद्विजावपि तत्रागतो, तं ऋर्षि भिक्षाप्रविष्टमुपलक्ष्याभिज्ञातः आभरणं क्षिप्त्वा कलङ्काय वज्रा पूत्कृतवती राजकुले धात्र्योपलक्षितः, इतरी निर्धाटितौ, मुनिधीः 2 / कुमार:-क्षुलककुमारो योगसङ्ग्रहे 3 / देवी-पुष्पभद्रे पुष्पसेनो नृपः पुष्पवती देवी, तस्या द्वे अपत्ये, पुष्पचूलः पुष्पचूला च, ते अनुरक्त भोगपरे देव्या प्रव्रज्य स्वर्गतया प्रबोधिते पुष्पचूला अन्य(अर्णि)कापुत्रान्ते प्रव्रज्य सिद्धा, देवस्य धीः 4 / पुरिमताले उदितोदयो राजा श्रीकान्तादेवी, जिनधर्मरतत्वाद्दासीभिः प्रव्राजिका भाजिता, द्वेषमापन्ना वाराणस्यां धर्मरुचिराज्ञे श्रीकान्तारूपं चित्रकस्थमदर्शयत्, रागाइतस्य प्रेषणेऽपमानेन सर्वबलेन // 408 //