________________ आवश्यकनियुक्तेरव- चूर्णिः कर्मजाया लक्षणं उदाहरणानि च नि० गा. 946-948 // 407 // उपयोगः-कर्मणि मनसो अभिनिवेशः, सारः-कर्मणः परमार्थः, उपयोगेन दृष्टः सारो यया सा तथा, प्रसङ्गोऽभ्यासः, परिघोलनं-विचारः, कर्माभ्यासविचारविशाला, साधुकृतमिति फलवती // 946 // अस्याः स्वरूपमा(उदाहरणानि आ)ह हेरनिए 1 करिसए 2 कोलिअ३ डोवे अ४ मुत्ति 5 घय 6 पवए 7 / तुन्नाग 8 वडई 9 पूइए अ१० घड 11 चित्तकारे अ 12 // 947 // हैरण्यिको अन्धकारेऽपि हस्तामर्शेन रूपं (प्यकं) जानाति 1 / कर्षक:-क्वापि चौरः पद्माकारं खात्रमदाल्लोकोऽपि | विस्मितस्तं प्रशंसति, कर्षक: प्राह शिक्षितस्य किं दुष्करं?, चौरेण श्रुतं, क्षुरिकां लात्वा अशात्सा (मारयामि, तेन) पट प्रसार्य व्रीहिमुष्टिं भृत्वोतं पश्य विज्ञानं, किं विमुखाः संमुखाः पार्श्वतः पतन्त्वेते, तथैव जातं हृष्टश्चौरः 2 / कोलिको मुष्टिना लात्वा तन्तून् जानाति इयद्भिः कण्डकैः पटं स्यात् 3 / परिवेषिका डोवेन परिवेषयन्ती मानं वेत्ति 4 / 'मुत्ति' त्ति मणिकारको मुक्ता उच्छाल्य सुकरवालेन प्रोतयति 5 / घृतवणिक् प्रतोल्या उपरि स्थितो भूस्थभाजने घृतं प्रक्षिपति 6 / प्लवकः आकाशे करणानि ददाति 7 / तुन्नाको व्यूतमिव करोति 8 / वर्द्धकिः सूत्रधारः 9 / पौपिकः कांदविकः 10 / घटकारः 11 / चित्रकारः 12 / सर्वेषां कर्मजा बुद्धिः॥९४७॥ पारिणामिकीमाह अणुमाणहेउदिटुंतसाहिया वयविवागपरिणामा। हिअनिस्सेअसफलवई बुद्धी परिणामिआ नाम // 948 // अनुमानादिभिः साध्यमर्थ साधयतीति सा, तथा लिङ्गात् ज्ञानमनुज्ञानं स्वार्थ, तत्प्रतिपादको हेतुः परार्थ, साध्योपमाभूतस्तु दृष्टान्तः, वयोविपाके परिणामः-पुष्टता यस्याः सा तथा, हितमभ्युदयो निःश्रेयसं मोक्षस्ताभ्यां फलवती // 948 // // 407 //