________________ आवश्यकनियुक्तेरव चूर्णिः नमस्कारनियुक्तिः नि० गा० *888-890 // 39 // उप्पन्नाऽणुप्पन्नो इत्थ नयाऽऽइनिगमस्सऽणुप्पन्नो। सेसाणं उप्पन्नो जइ कत्तो?, तिविहसामित्ता // 888 // कृताकृतादिवत् उत्पन्नानुत्पन्नः, अत्र नयाः प्रवर्तन्ते, आदिनैगमस्य सामान्यमात्रावलम्बित्वात् तस्य चोत्पादव्ययरहितत्वान्नमस्कारोऽप्यनुत्पन्नः, शेषाणां विशेषग्राहित्वात् तस्य चोत्पादव्ययवत्वान्नमस्कार उत्पन्नः, सनहस्य विशेषग्राहित्वं नेति नैगम| एवान्तर्भावाददोषः / यद्युत्पन्नः, कुतः? इति आह-त्रिविधस्वामित्वात्रिविधकारणात् // 888 // तदाह समुट्ठाणवायंणालदिओ य पढमे नयत्तिए तिविहं / उज्जुसुय पढमवजं सेसनया लद्धिमिच्छति / / 889 // समुत्थानादिभ्यो नमस्कारः समुत्पद्यते, समुत्थानं देहस्य गृह्यते, तदाधारभूतत्वात्तन्नमस्कारकारणं, तद्भावभावित्वात् , वाचना-परतः श्रवणं, सा नमस्कारकारणं, लब्धिः-तदावरणक्षयोपशमलक्षणा, प्रथमे नयत्रिकेऽशुद्धनैगमसङ्ग्रहव्यवहाराख्ये विचार्ये समुत्थानादित्रिविधं नमस्कारकारणं, आह-नैगमसङ्ग्रही कथं त्रिविधं कारणमिच्छतः ?, तयोः सामान्यमात्रावलम्बि. त्वात् , उच्यते, 'आदिनैगमस्सऽणुप्पन्न' इत्यत्रैव प्रथमनयत्रिकात्तयोरुत्कलितत्वान्न दोषः, ऋजुसूत्रः प्रथमवर्जमेवेच्छति, समुत्थानस्य व्यभिचारित्वात् , तद्भावेऽपि वाचनालब्धिशून्यस्यासम्भवात् , शेषनयाः-शब्दादयो लब्धिमेवेच्छन्ति, वाचनाया अपि व्यभिचारित्वात् , सत्यामपि तस्यां लब्धिरहितस्य गुरुकर्मणोऽभव्यस्य वा नैवोत्पद्यते नमस्कारः॥ 889 // निक्षेपश्चतुर्की नामादिभेदात्, [ज्ञभव्यशरीरातिरिक्तद्रव्यनमस्काराभिधित्सयाऽऽह] निन्हाइ दव्व भावोवउत्तु जं कुज संमदिट्टी उ / नेवाइयं पयं दव्वभावसंकोयणपयत्थो॥ 890 // निवादिव्यनमस्कारो नमस्कारनमस्कारवतोरव्यतिरेकात् / नोआगमतो भावनमस्कारो यत्कुर्यादुपयुक्तः सम्य // 39 //