________________ आवश्यकनियुक्तेरव चूर्णिः // 381 // 38SEEEEE******EKEXXESXXX चण्डकौशिकवत् , उपशमे अङ्गऋषिवत् , मनोवाक्काययोगे च प्रशस्ते लभ्यते बोधिः॥ 844 // अनुकम्पादिभिर्वा अवाप्यते [सामायिकमित्याह] अणुकंपऽकामणिज्जर बालतवे दाणविणयविभंगे। संयोगविप्पओगे वसणूसवइडि सकारे // 845 // वेजे मेंठे तह इंदणाग कयउपण पुप्फसालसुए। सिवदुमहुरवणिभाउय आहीरदसण्णिलापुत्ते // 846 // अनुकम्पया जीवः सामायिकं लभते वैतरणीवैद्यवत्, तथाऽकामनिर्जरावान्मिण्ठवत् , यथा वसन्तपुरे इभ्यवधूः दुःशीला, श्वशरेण दृष्टा नूपुरं गृहीतं, तया कपटेन दिव्यं कृत्वा जनः प्रत्यायितः, श्रेष्ठी चिन्तया रात्रावनिद्रः नृपेणान्तःपुरे रक्षायै स्थापितः, राज्ञी मिण्ठासक्ता ज्ञाता, रुष्टेन राज्ञा राज्ञीमिण्ठौ निर्विषयौ कृती, प्रत्यन्तग्रामे शून्यगृहे स्थितौ / राज्ञी चौरेण लग्ना, मिण्ठस्तदपराधात् शूले भिन्नः, श्राद्धेन नमस्कारं ग्राहितो मृतो व्यन्तरोऽभूत् , श्राद्धो रक्षितो, राज्ञी बोधिता च तेन | व्यन्तरेण / बालतपोयुक्त इन्द्रनागवत् , सुपात्रप्रयुक्तदानः कृतपुण्यवत् , आराधितविनयः पुष्पशालसुतवत् , अवाप्तविभङ्गज्ञान-1 स्तापसशिवराजर्षिवत् / द्रष्टव्यः (दृष्टद्रव्य) संयोगविप्रयोगो मथुराद्वयवासिवणिग्द्वयवत्, अनुभूतव्यसनो भ्रातृदयशकटचक्राहतमल्लण्डीलब्धमानुषत्वस्त्रीगर्भजातप्रियद्वेष्यपुत्रद्वयवत् , अनुभूतोत्सवः आभीरवत् , प्रत्यन्तग्रामे आभीराणि, साधुपार्थे स्वर्गसुखश्रवणं, अन्यदा इन्द्रमहे द्वारवत्यामागतानि, उत्सवं दृष्ट्वा प्रतिबुद्धानि प्रव्रजितानि, दृष्टमहर्द्धिर्दशार्णभद्रराजवत्, | नृपकृतसत्कारकाविणाप्यलब्धसत्कार इलापुत्रवत् / तत्र वैतरणीवैद्यो वानरोऽभूत् , स साधोः कण्टकमपनीय त्रिदिनानशनेन सहस्रारं गतः // 846 // तथाऽऽह दृष्टान्तसहितानि अनुकम्पादीनि सामायिकप्राप्तिकार__णानि नि० गा० 845-846 | // 381 //