________________ आवश्यकनिर्युक्तेरव चूर्णिः भव्यसंज्ञिउवासदृष्टिद्वाराणि | नि० गा० 813-814 // 371 // ********XXXXXXXXXXXXXX सम्यक्त्वश्रुतयोर्भवति प्रतिपत्तिः, सम्भवति विवक्षिते काले इत्यर्थः / पूर्वप्रतिपन्नकस्त्वनयोर्विद्यत एव, मनुष्येषु भवति | विरतिः, प्रतिपत्तिमङ्गीकृत्य मनुष्येष्वेव सम्भवतीत्यर्थः, पूर्वप्रतिपन्नापेक्षया तु सदा भवत्येव, विरताविरतिश्च तिर्यक्षु, भावना पूर्ववत् // 812 // भव्यसंज्ञिद्वार आहभवसिद्धिओ उ जीवो पडिवजइ सो चउण्हमण्णयरं / पडिसेहो पुण असण्णिमीसए सपिण पडिवजे // 813 // भवसिद्धिको भव्यः, स चतुर्णामन्यतरत् एकं द्वे त्रीणि सर्वाणि, व्यवहारनयापेक्षया इत्थमुच्यते, न तु निश्चयतः केवलसम्यक्त्वसामायिकसम्भवोऽस्ति, श्रुतसामायिकानुगतत्वात्तस्य, एवं संझ्यपि, यत आह-संन्नि पडिबजे, पूर्वप्रतिपन्नकस्तु भव्यसंज्ञिष्वस्त्येव, प्रतिषेधः पुनरसंज्ञिनि मिश्रकेऽभव्ये च, मिश्रके-सिद्धे यतोऽसौ न संज्ञी नाप्यसंज्ञी न भन्यो नाप्यभव्यः, पुनःशब्दस्तु पूर्वप्रतिपन्नोऽसंज्ञी सास्वादनो जन्मनि सम्भवतीति विशेषणार्थः, संज्ञी प्रतिपद्यते इति व्याख्यातमेव // 813 // उच्छ्वासदृष्टिद्वार आहऊसासग णीसासग मीसग पडिसेह दुविह पडिवण्णो। दिट्ठीइ दो णया खलु ववहारो निच्छओ चेव // 814 // उच्छासको निःश्वासक आनपानपर्याप्तिपरिनिष्पन्न इत्यर्थः, स हि चतुर्णामपि प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नो|ऽस्त्येवेति शेषः / मिश्रः खल्वानपानपर्याप्त्या अपर्याप्तो भण्यते, तत्र प्रतिपत्तिमङ्गीकृत्य प्रतिषेधो, नासौ चतुर्णामपि प्रतिपद्य- मानकः सम्भवतीत्यर्थः / स एव द्विविधस्य सम्यक्त्वश्रुतसामायिकस्य प्रतिपन्नः पूर्वप्रतिपन्नः स्याद्देवादिर्जन्मकाले, अथवा मिश्रकः-सिद्धस्तत्र चतुर्णामप्युभयथापि प्रतिषेधः, द्विविधस्य दर्शनचारित्रसामायिकस्य शैलेशीगतः पूर्वप्रतिपन्नः स्यादसावपि // 371 //