________________ आवश्यकनियुक्तरव कालमति चूर्णिः द्वारे नि० गा० 811-812 // 370 // णारगदेवाकम्मगअंतरदीवेसु दोण्ह भयणा उ। कम्मगणरेसुं चउसुं मुच्छेसु तु उभयपडिसेहो // 2 // कालद्वारे कालस्त्रिविधः-उत्सर्पिणीकालो अवसर्पिणीकाल उभयाभावतोऽवस्थितश्च, तत्र भरतैरावतेष्ववसर्पिण्युत्सर्पिणीगतः कालः प्रत्येकं सुषमसुषमादिभेदात् षड्विधः, अवस्थितश्चतुर्द्धा सुषमसुषमाप्रतिभागः 1 सुषमाप्रतिभागः 2 सुषमदुःषमाप्रतिभागः 3 दुःषमसुषमाप्रतिभागश्च 4 / तत्राद्यो देवकुरूत्तरकुरुषु, द्वितीयो हरिवर्षरम्यकयोः, तृतीयो हैमवतैरण्यवतयोः, चतुर्थो विदेहेषु, इत्थमनेकधा काले सति यस्य सामायिकस्य यस्मिन् काले प्रतिपत्तिरित्येतदाहसंमत्तस्स सुयस्स य पडिवत्ती छविहंमि कालंमि / विरई विरयाविरइं पडिवज्जइ दोसु तिसु वावि // 811 // पडिधेऽपि सुषमादिलक्षणकाले सम्भवति, न चात्र दुःषमदुःषमायां अत्यन्तक्लिष्टत्वात् बिलवासिषु सामायिकाभाव आशङ्कनीयः, यतस्तत्रापि सम्यक्त्वमात्रप्रतिपत्ता कश्चित्स्यादपि, स च प्रतिपत्ता सुषमसुषमादिषु देशन्यूनपूर्वकोट्यायुष्क एव प्रतिपद्यते, पूर्वप्रतिपन्नकास्त्वनयोर्विद्यन्त एव, विरतिं तथा विरताविरतिं प्रतिपद्यते कश्चिद् द्वयोः कालयोः त्रिषु वाऽपि कालेषु, तत्रोत्सपिण्यां द्वयोः दुःषमसुषमायां सुषमदुःषमायां च, अवसर्पिण्यां त्रिषु सुषमदुषमायां दुःषमसुषमायां दुःषमायां च, पूर्वप्रतिपन्नस्त्वस्त्येव, अपिशब्दात्संहरणं प्रतीत्य पूर्वप्रतिपन्नकः सर्वकालेषु सभ्भवति, प्रतिभागकालेषु त्रिषु सम्यक्त्वश्रुतयोः प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येव, चतुर्थे तु प्रतिभागे चतुर्विधस्यापि प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्तु अस्ति एव, बाह्यद्वीपसमुद्रेषु तु काललिङ्गरहितेषु त्रयाणां प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येव // 811 // गतिद्वारमाहचउमुवि गतीसुणियमा सम्मत्तसुयस्स होइ पडिवत्ती। मणुएसु होइ विरती विरयाविरई य तिरिएसुं // 812 // // 370 //