________________ आवश्यकनियुक्तेरव चूर्णिः आहारकपर्याप्तसुप्तजन्मद्वाराणि | नि० गा८१५-८१६ // 372 // तावनिमश्र एव, दृष्टौ विचार्यमाणायां द्वौ नया विचारको व्यवहारो निश्चयश्चैव, तत्राद्यस्य सामायिकरहितः सामायिकं प्रतिपद्यते, इतरस्य तु तद्युक्त एव, क्रियाकालनिष्ठाकालयोरभेदात् // 814 // आहारकपर्याप्तकद्वार आह आहारओ उ जीवो पडिवज्जइ सो चउण्हमण्णयरं / एमेव य पज्जत्तो सम्मत्तसुए सिया इयरो // 815 // आहारकश्चतुर्णामन्यतरत्प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव, एवमेव पर्याप्तः षड्भिरप्याहारादिपर्याप्तिभिः, इतरोऽनाहारकोऽपर्याप्तकश्च, तत्रानाहारकोऽपान्तरालगतौ सम्यक्त्वश्रुते अङ्गीकृत्य स्यात् पूर्वप्रतिपन्नः, प्रतिपद्यमानस्तु नैवेति शेषः / केवली तु समुद्घातशैलेश्यवस्थायामनाहारको दर्शनचरणयोः, अपर्याप्तोऽपि सम्यक्त्वश्रुते अधिकृत्य स्यात्पूर्वप्रतिपन्नः // 815 // सुप्तजन्मद्वारे आहणिदाए भावओऽवि य जागरमाणो चउण्हमण्णयरं / अंडयपोयजराउय तिग तिग चउरो भवे कमसो // 816 // सप्तो द्विधा द्रव्यभावाभ्यां एवं जाग्रदपि, तत्रो द्रव्यसुप्तो निद्रया भावसुप्तोऽज्ञानी, तथा द्रव्यजागरोऽनिद्रः भावजागरः सम्यग्दृष्टिः, तत्र निद्रया भावतोऽपि च जाग्रच्चतुर्णामन्यतरत्प्रतिपद्यते पूर्वप्रतिपन्नस्त्वस्त्येव, अपिशब्दाद्भावजागरो द्वयोः पूर्वप्रतिपन्न एव, द्वयं तु प्रतिपत्ता स्यात्, निद्रासुप्तश्चतुर्णामपि पूर्वप्रतिपन्नः स्यान्न तु प्रतिपद्यमानकः, भावसुप्तस्तूभयविकलो नयमताद्वा प्रतिपद्यमानकः स्यात् / जन्म त्रिविधं-अण्डजादिभेदेन, तत्राण्डजाः-हंसादयस्त्रयाणां प्रतिपद्यमानकाः पूर्वप्रतिपन्नाः सन्त्येव, पोतजाः-हस्त्यादयोऽप्येवमेव, जरायुजाः-मनुष्याश्चतुर्णामित्थमेव / औपपातिकाःप्रथमयोद्धयोरेवं // 816 // स्थितिद्वारमाह 372 //