SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरक चूर्णिः // 361 // आया खलु सामाइयं पञ्चक्खायंतओ हवइ आया / तं खलु पञ्चक्खाणं आवाए सव्वदचाणं // 79 // आत्मैव-जीव एव सामायिकमित्यर्थः, अजीवादिविकल्पव्यवच्छेदः, स च प्रत्याचक्षाणः-प्रत्याख्यानं कुर्वन् ‘क्रियमाणं कृतमिति क्रियाकालनिष्ठाकालयोरभेदाद्वर्त्तमानस्यैवातीतापत्तेः कृतप्रत्याख्यानोऽपि गृह्यते, स एव च परमार्थत आत्मा, श्रद्धाना ज्ञान सावधनिवृत्तिस्वस्वभावावस्थितत्वात् , प्रत्याख्यानं जीवपरिणतिरूपत्वाद्विषयमधिकृत्य सर्वद्रव्याणामापातेआभिमख्येन समवाये, निष्पद्यत इति वाक्य]शेषः, तस्य श्रद्धेयज्ञेयक्रियोपयोगित्वात्सर्वद्रव्याणाम् // 790 // यथाभूतोऽसावात्मा सामाविकं तथाभूतमाहसावजजोगविरओ तिगुत्तो छसु संजओ। उवउत्तो जयमाणो आया सामाइयं होई // 149 // (मू. भा.) यदुक्तं-तं खलु पञ्चक्खाणं आवाए सव्वदवाणति तत्र साक्षान्महाव्रतरूपं चारित्रसामाधिकमधिकृत्य सर्वद्रव्यविषयतामस्याहपढमंमि सव्वजीवा विइए चरिमे य सव्वदव्वाई / सेसा महब्बया खलु तदेकदेसेण दव्वाणं // 791 // 'प्रथम प्राणातिपातनिवृत्तिरूपवते सर्वजीवाः तदनुपालनरूपत्वात्तस्य, द्वितीये चरमे च सर्वद्रव्याणि, कथं?, नास्ति पञ्चास्तिकायात्मको लोक इति मृषावादस्य, सर्वद्रव्यविषयत्वात् , तन्निवृत्तिरूपत्वाच्च द्वितीयव्रतस्य, तथा मूर्छाद्वारेण परिग्रहस्यापि सर्वद्रव्यविषयत्वाच्चरमव्रतस्य तन्निवृत्तिरूपत्वात् , शेषाणि महाव्रतानि तेषामेकदेशस्तेनैव हेतुभूतेन द्रव्याणां, भवन्तीत्यध्याहारः, कथं ?-तृतीयस्य ग्रहणधारणीयद्रव्यादत्तादानविरतिरूपत्वात्, चतुर्थस्य च रूपरूपसहगत [द्रव्य] सम्बन्ध्यब्रह्म [विरति] कथम्भूत आत्मा सामायिक सामायिकविषयता च नि० गा० 790-791 भा० गा० 149 // 361 // आ०चू०३१
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy