SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव अनुमतद्वार नि० गा. 788-789 चूर्णिः ** ( R * // 360 // * * * * अतो नैते साधवो नापि गृहस्था नान्यतीर्थ्याः, यतस्तदर्थाय कृतं कल्प्यमेव स्यादतो अवक्तव्या (अव्यक्ता) एते // 787 // आह-बोटिकानां यत्कारितं तत्र का वार्ता ?, उच्यतेमिच्छादिट्ठीयाणं जं तेसिं कारियं जहिं जत्थ / सव्वपि तयं सुद्धं मूले तह उत्तरगुणे य // 788 // उक्तं समवतारद्वार, अधुनाऽनुमतद्वारे यद्यस्य नयस्य सामायिकं मोक्षमार्गत्वेनाऽनुमतं तदाहतवसंजमो अणुमओ निग्गंथं पवयणं च ववहारो। सदुज्जुसुयाणं पुण निव्वाणं संजमो चेव // 789 // तपःप्रधानः संयमस्तपःसंयमोऽसावऽनुमतो मोक्षाङ्गतया, निर्ग्रथानामिदं नैर्ग्रन्थ्यमाहतमित्यर्थः, प्रवचनं श्रुतमित्यर्थः, चशब्दो अनुक्त्वसम्यक्त्वसामायिकसमुच्चयार्थः, एवं व्यवहारो व्यवस्थितः, व्यवहारग्रहणाच्च तदधोवर्ति नैगमसङ्ग्रहनयद्वयमपि गृहीतं, ततश्चायमर्थः नैगमसङ्ग्रहव्यवहारास्त्रिविधमपि सामायिकं मोक्षमार्गतयाऽनुमन्यन्ते, तपःसंयमग्रहणाच्चारित्र| सामायिकं, प्रवचनग्रहणात् श्रुतसामायिकं चात्सम्यक्त्वसामायिकं / आह-यद्येवं किमिति मिथ्यादृष्टयः ?, उच्यते, यतो व्यस्तान्यप्यनुमन्यन्ते न सापेक्षाण्येव, शब्दऋजुसूत्रयोः पुनः कारणे कार्योपचारान्निर्वाणं संयम एवेत्यनुमतं, ऋजुसूत्रमुल्लङ्घयादौ शब्दोपन्यासः शेषोपरितननयानुमतसङ्ग्रहार्थ, अयमर्थः-ऋजुसूत्रादयः सर्वे चारित्रसामायिकमेव मोक्षमार्गत्वेनानुमन्यन्ते नेतरे द्वे // 789 // 'उद्देसे निद्देसे' इत्याद्युपोद्धातनियुक्ति [प्रथम ] गाथावयवार्थो गतः, अधुना द्वितीयद्वारगाथा| वयवार्थः, तत्र किमिति द्वारं व्याख्यायते-किं सामायिकं ?, किं जीवः उताजीवः ? अथोभयं ? उतानुभयं ?, जीवाजीवत्वेऽपि किं द्रव्यं ? उत गुण इत्याशङ्कासम्भवे सत्याह l // 36 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy