SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ बावश्यकनिर्युक्तेरव निह्नव ताफलं निगा० (786-787 // 359 // मा भूत्कश्चित्तथैव प्रतिपद्येत, अतो ज्ञाप्यते निहवानामपि प्रत्याख्याने इयमेव दृष्टिः, एकैकस्य च 'एत्तोत्ति इतोऽमीषां मध्ये द्वौ द्वौ दोषौ विज्ञातव्यौ मुक्त्वैकमिति वर्तते, परस्परतः यथाऽऽहुर्बहुरता जीवप्रदेशिकान्-यूयं कारणद्वयात् मिथ्यादृष्टयः, यद्भणत-एकप्रदेशो जीवस्तथा क्रियमाणं च कृतं, इत्येवं सर्वत्र योज्यं / गोष्ठामाहिलमधिकृत्य एकैकस्य त्रयो दोषाः, यथा [आहुः] बहुरतान् गोष्ठामाहिलाः-दोषत्रयाद्भवन्तो मिथ्यादृष्टयः यत्कृतं कृतमिति भणत तथा बद्धं कर्म वेद्यते यावज्जीवं च प्रत्याख्यानं // 785 // सत्तेया दिडीओ जाइजरामरणगब्भवसहीणं / मूलं संसारस्स उ भवंति निग्गंथरूवेणं // 786 // ___ सप्तैता दृष्टयः, बोटिकास्तु मिथ्यादृष्टयः एवेति न तद्विचारः / जातिग्रहणान्नारकादिप्रसूतिग्रहः मूलं-कारणं भवतीति | योगः, मा भूत्सकृद्भाविनीनां जातिजरामरणगर्भवसतीनां मूलमिति प्रत्ययः अत आह-संसारस्तिर्यग्नरनारकामरभवानुभूतिरूपः प्रदीर्घो गृह्यते, तस्यैव, तोरवधारणार्थत्वात्, निर्ग्रन्थरूपेण // 786 // आह-एते निवाः किं साधवः ? उत तीर्थान्तरीयाः? उत गृहस्थाः ?, उच्यते, न साधवः, यस्मात्साधूनामेकस्याप्यर्थाय कृतमशनादि शेषाणामकल्प्यं, नैवं निह्नवानां, आह च पवयणनीहयाणं ज तेसिं कारियं जहिं जत्थ / भजं परिहरणाए मूले तह उत्तरगुणे य // 787 // निहूयन्ति देशीवचनमकिञ्चित्कारार्थे, ततश्च प्रवचन-यथोक्तं क्रियाकलापं प्रत्यकिञ्चित्कराणां यदशनादि भाज्यं विकल्पनीयं परिहरणया, कदाचित्परिह्रियते कदाचिन्न, चेल्लोको न जानाति यथैते निवाः साधुभ्यो भिन्नास्तदा परिहियते, अथ तु जानाति तदा न, अथवा परिहरणा-परिभोगस्तत्र भाज्यं, मूलगुणविषयमाधाकर्मादि तथोत्तरगुणविषयं च क्रीतादि, // 359 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy