________________ बावश्यकनियुक्तेरव चूर्णिः निवाः भा० गा० 138-139 // 355 // XXXXXXXXXXXXXXXXXXXXXX मोरी नउलि बिराली वग्घी सीही उलूगि ओवाई / एयाओ विजाओ गेण्ह परिवायमहणीओ // 138 // (मू.भा.) उलूकी 'ओवाई' त्ति उवालय (ओलावय) प्रधाना, रजोहरणं चाभिमब्य गुरुभिर्दत्तं तेन गईभीविद्या तत्प्रयुक्ता | विफलिता / वादिनि जिते गुरुभिरुक्तः-वं तत्र यात्वा उत्सूत्रं मया प्रज्ञप्तमिति कथय, सोऽभिनिवेशादनिच्छन् गुरुणा सह सभायां वादायोत्तस्थौ // 138 // ततःसिरिगुत्तेणऽवि छलुगो छम्मासे कहिऊण वायजिओ। आहरणकुत्तियावण चोयालसएण पुच्छाणं // 139 // (मू.भा.) 'छलुगो' त्ति षट्पदार्थप्ररूपणादुलूकगोत्रत्वात् (त्वाच्च) षडुलूकः षण्मासान् विकृष्यातिवाह्य वादे जितो गुरुभिः उदाहराणि परीक्षायै कुत्रिकापणे चतुश्चत्वारिंशदधिकशतपृच्छानां कारितानि, तत्र तेन रोहगुप्तेन षट् मूलपदार्था गृहीताः, तद्यथाद्रव्य 1 गुण 2 कर्म 3 सामान्य 4 विशेष 5 समवायाः 6, तत्र द्रव्यं नवधा-भूम्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि, गुणाः सप्तदश रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगवियोगपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाख्याः, कर्म पश्चधा-उत्क्षे. पणावक्षेपणाकुञ्चनप्रसारणगमनानि, सामान्यं त्रिधा-त्रिपदार्थसत्करी सत्ता 1 सामान्यं द्रव्यत्वादि 2 सामान्यविशेषः पृथिवीत्वादि 3, विशेषा अन्त्याः [अनन्त्याश्च ], इहप्रत्ययहेतुः समवायः, एते 36 भेदाः, एकैकस्मिन् चत्वारो भङ्गाः, भूमिः 1 अभूमिः 2 नोभूमिः 3 नोअभूमिः 4, एवं सर्वत्र, सर्वे 144, तत्र कुत्रिकापणे भूमिर्याचिता लब्धो लेष्टुः, अभूम्यां पानीयं, नोभूम्यां जलायेव तु नो राश्यन्तरं, नोऽभूम्यां लेष्टुरेव, एवं सर्वत्र, ततो निगृहीतः षडुलूकः गुरुणा तन्मूनि खेलमल्लको भग्नः, Cl // 355