SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव इन्द्रियविषयमान। गा.६ चूर्णिः // 28 // वेषयं द्रष्टव्यं, नमाणमात्माङ्गुलेन पोजनल१र्व्यवस्थितमा पुष्करवराः मानदयविषय-विन्द्रय समस्तनगरस्कन्धावारव्यापी च विजयढक्कादिशब्द आगमे प्रतिपाद्यते, एवमागमप्रसिद्धः पञ्चधनुःशतोच्चादिमनुष्याणां विषयव्यवहारो व्यवच्छेदं मा प्रापदित्यात्माङ्गुलेनेन्द्रियविषयपरिमाणमवसातव्यं, नोच्छ्याङ्गुलेन / ननु चक्षुरिन्द्रियविषय- परिमाणमुक्तस्वरूपं न घटते, अधिकस्यापि तद्विषयपरिमाणस्यागमान्तरे प्रतिपादनात् , तथाहि-पुष्करवराढ़ें मानुषोत्तरपर्वतसमीपे मनुष्याः कर्कसंक्रान्तौ प्रमाणाङ्गुलनिष्पन्नः सातिरेकैरेकविंशतियोजनलक्षैर्व्यवस्थितमादित्यमवलोकमानाः प्रतिपाद्यन्ते शास्त्रान्तरे, ततः कथमुक्तस्वरूपं नयनविषयपरिमाणमात्माङ्गुलेन घटते ?, प्रमाणाङ्गुलेनापि व्यभिचारात्, सत्यमेतत् , केवलमिदं विषयपरिमाणं प्रकाश्यविषयं द्रष्टव्यं, न तु प्रकाशकविषयं, ततः प्रकाशकेऽधिकतरमपि विषयपरिमाणं न विरुध्यते इति न कश्चिद्दोषः। मनसस्तु केवलस्येव सर्वगतत्वात् न क्षेत्रतो विषयपरिमाणं, पुद्गलमात्रनिबन्धनाऽभावात् , इह यत्पुद्गलमात्रनिबन्धननियतं न भवति तस्य विषयपरिमाणं न, यथा केवलज्ञानस्य, न भवति च पुद्गलमात्रनिबन्धननियतं मनस्तस्मात्तथा (मन इति, इह) "स्पृष्टं शृणोति शब्द"मित्युक्तं, तत्र किंशब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि शृणोति उतान्यान्येव |तद्वासितानि आहोस्वित् मिश्राणि इति नोदकाभिप्रायमाशय न तावत्केवलानि, तेषां वासकत्वात् , तद्योग्यद्रव्याकुलत्वाच्च लोकस्य, किन्तु मिश्राणि तद्वासितानि वा ॥५॥शृणोति इत्यमुमर्थमभिधित्सुराह भासासमसेढीओ, सई जं सुणइ मीसयं सुणई। वीसेढी पुण सई, सुणेइ नियमा पराघाए // 6 // भाष्यत इति भाषा-वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समश्रेणयः, समग्रहणं विश्रेणिव्यवच्छेदार्थम् / श्रेणयो नाम क्षेत्रप्रदेशपक्लयो अभिधीयन्ते, ताश्च सर्वस्यैव भाषमाणस्य षट्सु दिक्षु विद्यन्ते यासु उत्सृष्टा सती भाषा // 28 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy