________________ आवश्यक-1 निर्युक्तेरव चूर्णिः // 27 // का प्रपश्चितज्ञानामनुग्रहाय गम्यमानस्याप्यभिधानमदोषायेति / प्रकृतभावार्थस्त्वयं-गन्धादिद्रव्याणि स्वल्पानि स्थूलानि तदन्या- इन्द्रियाणां वासकानि च, घ्राणादीनि चेन्द्रियाणि श्रोत्रेन्द्रियापेक्षयाऽपटूनि, ततो घ्राणेन्द्रियादिगणो गन्धादि आलिङ्गितानन्तरमात्मप्रदेशै. विषयमारात्मीकृतं गृह्णाति, नान्यथेत्येवं 'व्यागृणीयात् , प्रतिपादयेत् , प्रज्ञापकः स्खशिष्येभ्यः। नन्विदमुक्तं-योग्यदेशावस्थितमेव रूपं नम् // पश्यति नायोग्यदेशावस्थितं, तत्र कियांश्चक्षुषो विषयः कियतो वा देशादागतं श्रोत्रादि गृह्णाति ?, उच्यते, श्रोत्रं तावच्छब्दं जघन्यतो अङ्गुलासङ्ख्येयभागमात्राद्देशादुत्कर्षतस्तु द्वादशभ्यो योजनेभ्य इति / चक्षुरपि जघन्यतोऽङ्गुलसङ्ख्येयमात्रावस्थितं : रूपं पश्यति, उत्कर्षतस्तु सातिरेकयोजनलक्षव्यवस्थितं प्राणरसनस्पर्शनानि तु जघन्येनाऽङ्गुलासङ्ख्येयभागमात्राद्देशादागतं गन्धादि गृह्णाति उत्कर्षतस्तु नवभ्यो योजनेभ्यः / तत्रेदमिन्द्रियविषयपरिमाणमात्माङ्गुलेन प्रतिपत्तव्यं / ननु देहप्रमाणं समुच्छ्याङ्गुलेन, देहाश्रितानि चेन्द्रियाणि, ततस्तेषां विषयपरिमाणमप्युच्छ्याङ्गुलेन वक्तुमुचितं, कथमुच्यते आत्माङ्गुलेन ?, | नैष दोषः, यद्यपि हि देहाश्रितानीन्द्रियाणि तथापि तेषां विषयपरिमाणमात्माङलेन, देहादन्यत्त्विन्द्रियविषयपरिमाणं, तस्यात्माङ्गुलप्रमेयत्वात् / यधुच्छ्याङ्गुलेन स्यात् ततः को दोष आपद्यते ?, उच्यते-पञ्चधनुःशतोच्चादिमनुष्याणां विषयव्यवहारविच्छेदः, तथाहि-यद्भरतस्यात्माङ्गुलं तत्किल प्रमाणाडलं। तच्च प्रमाणाङ्गुलमुच्छ्याङ्गलसहस्रेण भवति "उस्सेहंगुलमेगं हवइ प्रमाणं (णंगुलं ) सहस्सगुण”मितिवचनात् , ततो भरतसगरादिचक्रवर्त्तिनां या नगर्यो ये च स्कन्धावारास्ते // 27 // आत्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते प्रसिद्धास्ते चोच्छ्याङ्गलप्रमित्या अनेकानि योजनसहस्राणि स्युः, तथा च सति तत्रायुधशालादिषु ताडितभेर्यादिशब्दश्रवणं न सर्वेषामापोत, “बारसहिं जोअणेहिं सोअं अइगिण्हए सद्द"मितिवचनात्,