SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तेरव चूर्णिः शब्दादीनां स्पृष्टास्पृष्टतादि। गा.५ // 26 // &K. & त्तरकालमविच्युतिरूपाऽन्तर्मुहूर्त्त भवति, एवं स्मृतिरूपापि, वासनारूपा तु तदावरणकर्मक्षयोपशमाख्या संस्काराऽपरपर्याया, अत एव स्मृतिधारणाया बीजभूता सङ्ख्येयवर्षायुषां सत्त्वानां सङ्ख्येयं कालं असङ्ख्येयवर्षायुषां च पल्योपमादिजीविनामसङ्ख्येयमिति / सम्प्रति श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयतां प्रतिपिपादयिषुराह पुढे सुणेइ सई रूवं पुण पासई अपुढे तु / गंधं रसं च फासं च बद्धपुढे वियागरे // 5 // श्रोत्रेन्द्रियं कर्तृ, शब्दं कर्मतापन्नं शब्दप्रायोग्यद्रव्यसङ्घातमित्यर्थः, शृणोति-गृह्णाति परिच्छिनत्तीति भावः, स्पृष्टं तनौ रेणुवदालिङ्गितमात्रं, किमुक्तं भवति, शब्दद्रव्याणि सकललोकव्यापीनि सूक्ष्माणि, अत एव द्रव्येन्द्रियस्यान्तरमपि(रपि) मनाक् प्रविशन्ति तदन्यद्रव्यवासकस्वभावानि च / श्रोत्रेन्द्रियं शेषेन्द्रियगणापेक्षया प्रायः पटुतरं, ततः स्पृष्टमात्रमेव शब्दद्रव्यसमूह गृह्णाति / रूप्यत इति रूपं तत् रूपं पुनः पश्यति-गृह्णाति उपलभ्य(भ)ते इति यावत् , अस्पृष्टं-अनालिङ्गितं गन्धादिवन्न सम्बन्धमित्यर्थः, तुरेवकारार्थः, स चावधारणे, रूपं पुनः पश्यत्यस्पृष्टमेव, चक्षुषोप्राप्यकारित्वादेव, तच्च प्रागेव भावितं, पुनःशब्दो विशेषणार्थः, स चैतद्विशिनष्टि-अस्पृष्टमपि योग्यदेशावस्थितं, न पुनरयोग्यदेशावस्थितममरलोकादि / गन्ध्यते-आघायत इति | गन्धस्तं, 'रस आस्वादने, रस्यत इति रसस्तं च, स्पृश्यत इति स्पर्शस्तं च, चशब्दौ पूर्णााँ, बद्धमाश्लिष्टं नवशरावे तोयवदात्मप्रदेशैरात्मीकृतं इत्यर्थः, स्पृष्टं पूर्ववत् , प्राकृतशैल्या चेत्थमुपन्यासः 'बद्धपुटुं'ति, परमार्थतस्तु स्पृष्टं च तद्बद्धं च स्पृष्टबद्धमिति द्रष्टव्यं, ननु यद्बद्धं गन्धादि तत्स्पृष्टं भवत्येव अस्पृष्टस्य बन्धायोगात्ततः स्पृष्टशब्दोच्चारणं गतार्थत्वादनर्थकमिति, नैष दोषः, शास्त्रारम्भस्य सर्वश्रोतृसाधारणत्वात् , त्रिविधा हि श्रोतारः केचिदुद्घटितज्ञाः केचिन्मध्यमबुद्धयः केचित्प्रपञ्चितज्ञा इति, तत्र && & & | // 26 // W
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy