________________ अवग्रहा आवश्यकनियुक्तेरव चूर्णिः दीनां कालमानम्। // 25 // माभिनिबोधिकज्ञानमवगन्तव्यं, नवरमीहा सदृशधर्मोपेतवस्तुविषयेति नयनादिनिबन्धनेहाविषया यथाक्रमं स्थाणुपुरुषादिकुष्ठोत्पलादिसम्भृतकारवेल्लमांसादिसर्पोत्पलनालादयः प्रतिपत्तव्याः। अन्ये त्वेवं पठन्ति-"अत्थाणं उग्गहणमि उग्गहो तह वियालणे ईहा / ववसायंमि अवायो धरणं पुण धारणं बेंति॥१॥" तत्रार्थानामवग्रहणे सति अवग्रहो नाम [प्रथमो] मतिभेद | इत्येवं ब्रुवते, एवमीहादिष्वपि योज्यं, भावार्थस्तु पूर्ववत् , अथवा प्राकृतशैल्या अर्थवशाद्विभक्तिपरिणाम इति प्रथमार्थे सप्तमी द्रष्टव्या // 3 // साम्प्रतमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराह उग्गह इसमयं ईहावाया मुहुत्तमद्धं तु / कालमसंखं संखं च धारणा होइ णायव्वा // 4 // अभिहितलक्षणोऽर्थावग्रहो यो जघन्यो नैश्चयिकः स एकं समयं भवति, अत्र “कालाधनोाप्ता"विति द्वितीया / तत्र च परमनिकृष्टकालविशेषः समयः, स च प्रवचनोक्तोत्पलपत्रशतव्यतिभेदोदाहरणाजरत्पदृशाटिकापाटनदृष्टान्ताच्चावसेयः / सांव्यवहारिकाऽर्थावग्रहव्यञ्जनावग्रहौ तु पृथक् पृथगन्तर्मुहूर्त्तकालप्रमाणौ / ईहा चावायश्चेहावायौ, प्राकृतत्वात् द्विवचने बहुवचनं, तौ मुहूर्ताद्धं ज्ञातव्यौ, तत्र मुहूर्त्तशब्देन घटिकाद्वयप्रमाणः कालोऽभिधीयते तस्यार्द्ध मुहूर्तार्द्ध, तुशब्दो विशेषणार्थः, किं विशिनष्टि ?-व्यवहारापेक्षयैवैतन्मुहर्तार्द्धमुक्तं तत्त्वतस्त्वन्तर्मुहूर्तमवसेयं / अन्ये त्वेवं पठन्ति 'मुहुत्तमंतं तु' मुहूर्त्तान्तस्तु अन्तर्मध्यकरणे, तुशब्द एवकारार्थः / इहावायौ भिन्नमुहूर्तमन्तर्मुहूर्तमेवेत्यर्थः / कलनं कालस्तं कालं, न विद्यते सङ्ख्या यस्याऽसावसङ्ख्यः, पल्योपमादिलक्षण इत्यर्थः, तं कालमसङ्ख्यं, तथा सङ्ख्यायत इति सङ्ख्यः, इयन्तः पक्षमासऋतुअयनादय इत्येवं सङ्ख्याप्रमितः, तं सङ्घयं, चकारादन्तर्मुहूर्त्त च, धारणा-अभिहितलक्षणा भवति ज्ञातव्या, अयमत्र भावार्थः-अवायो // 25 // आव०चू०३/