________________ आवश्यकनिर्युक्तेरव अर्थावग्रहादिखरूपम् चूर्णिः // 24 // न्तायां चोपघातो भवेत् / ननु दृश्यतेऽप्यनुग्रहो हर्षादिभिर्मनसोऽतिपुष्टता, तशाच्च शरीरोपचयः, उपघातश्च दृश्यतेऽतिशोककरणान्मनसो विघातसम्भवस्तद्वशाच्च शरीरस्य दौर्बल्यं, चिन्तावशाच्च हृद्रोगः, तदेतदतीवाऽसम्बद्धं, यत इह मनसोऽप्राप्यकारित्वं साध्यमानं वर्त्तते, विषयकृतानुग्रहोपघाताभावादिति हेतोः, न चेह विषयकृतावनुग्रहोपघातौ त्वया मनसो दर्येते तत्कथं व्यभिचारः? मनस्तु स्वयं पुद्गलमयत्वात् शरीरस्यानुग्रहोपघातौ करिष्यति, यथेष्टानिष्टरूप आहारः, तथाहि-इष्ट आहारः परिभुज्यमानः शरीरस्य पोषमाधत्ते अनिष्टस्तूपघातं, तथा मनोऽप्यनिष्टपुद्गलोपचितं शोकादिनिबन्धन शरीरस्य हानिमादधाति, इष्टपुद्गलोपचितं [च हर्षादिकारणं पुष्टिं, तस्मान्मनोऽपि विषयकृतानुग्रहोपघाताभावादप्राप्यकारीति चतुर्धा व्यञ्जनावग्रहः / तेषां (तथा) व्यञ्जनावग्रहचरमसमयोपात्तशब्दाद्यर्थावग्रहलक्षणोऽर्थावग्रहः, सामान्यमात्राऽनिर्देश्यग्रहणमेकसामायिकमर्थावग्रहः / सामान्यमानानिर्देश्य इति भावः। 'तथे त्यानन्तर्ये विचारणं-पर्यालोचनं अर्थानामित्यनुवर्तते, ईहनमीहा, तां ब्रुवत इति योगः, किमुक्तं भवति ?-अवग्रहादुत्तीर्णोऽपायात्पूर्वः सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषपरित्यागाकाङ्क्षी मतिविशेष इति, विशिष्टोऽवसायो व्यवसायो निर्णयो निश्चयोऽवगम इत्यनान्तरं [त], व्यवसायं चार्थानामिति वर्त्तते अवायं ब्रुवत इति संसर्गः, अयमर्थः शाङ्क एवायं शब्द इत्याद्यवधारणात्मकप्रत्ययोऽवाय इति / चशब्द एवार्थः, स चावधारणे, व्यवसायमेवायं ब्रुवत इति / धृतिर्धारणमर्थानामिति वर्त्तते, परिच्छिन्नस्य वस्तुनोऽविच्युतिवासनास्मृतिरूपं धरणं पुनर्धारणां ब्रुवते, पुनःशब्दोऽप्येवार्थः, स च पूर्ववत् / ब्रुवत इत्यनेन शास्त्रपारतन्त्र्यमाह, इत्थं तीर्थकरगणधरा ब्रुवते इति / अर्थावग्रहेहापायधारणाः पञ्चस्वेन्द्रियेषु षष्ठे च मनसि भावात्प्रत्येकं षड्भेदात्मकाश्चतुर्दा व्यञ्जनावग्रह इति सर्वसङ्कलनयाऽष्टाविंशतिभेदभिन्न // 24 //