________________ आवश्यकनिर्युक्तेरव चूर्णिः चक्षुर्मनसो|रप्राप्यका रिता // 23 // 來東森南京物流流非洲而向物流末的病来。 संस्पर्शतोऽनुग्रहः, शाडलतरुमण्डलावलोकनेऽपि शाडुलतरुच्छायासम्पर्कशीतीभूतसमीरसंस्पर्शात् , शेषकालं तु जलाद्यवलोकने अनुग्रहाभिमानः उपघाताभावादवसेयः, भवति चोपघाताभावेऽनुग्रहाभिमानः, यथाऽतिसूक्ष्माक्षरनिरीक्षणाद्विनिवृत्त्य यथासुखं नीलीरक्तवख्याद्यवलोकने, इत्थं चैतदङ्गीकर्त्तव्यं, अन्यथा यथा] सूर्येणोपघातो भवति तथा हुतवहजलशूलाद्यालोकने दाहक्लेदपाटनादयोऽपि कस्मान्न भवन्ति ?, अपिच-यदि चक्षुः प्राप्यकारि तर्हि स्वदेशगतं रजोमलाञ्जनादि किं नु न पश्यति ?, तस्मादप्राप्यकार्येव चक्षुः, ननु यदि चक्षुरप्राप्यकारि तर्हि कस्मादविशेषेण सर्वानप्यान्न गृह्णाति, यदि हि प्राप्तं परिच्छिन्द्यात्तर्हि यदेवानावृतं अदूरदेशस्थं वा तदेव गृह्णीयान्नाऽऽवृतं दूरदेशस्थं वा, तत्र नयनरश्मीनां गमनासम्भवात्सम्पर्काभावात् , ततो युज्येत चक्षुषो ग्रहणाग्रहणे नान्यथा, तथा चोक्तं-"प्राप्यकारि चक्षुः उपलब्ध्यनुपलब्ध्योरनावरणेतरापेक्षणात् दूरेतरापेक्षणाच्च / यदि हि चक्षुरप्राप्यकारि भवेत्तदा आवरणभावादनुपलब्धिरन्यथोपलब्धिरिति न स्यात् , न हि तदाऽऽवरणमुपघातकरणसमर्थ, प्राप्यकारित्वे तु मूर्तद्रव्यप्रतिघातादुपपत्तिमान् व्याघातः, अतिदूरे च गमनाभावादिति, प्रयोगश्चात्र-न चक्षुषो विषयपरिमाणमप्राप्यकारित्वान्मनोवत् , तदेतदयुक्ततरं, दृष्टान्तस्य साध्यविकलत्वात् , न खलु मनोऽप्यशेषान् विषयान् गृह्णाति, तस्यापि सूक्ष्मेष्वागमगम्यादिष्वर्थेषु मोहदर्शनात्, ततो यथा मनोप्राप्यकार्यपि स्वावरणक्षयोपशमसापेक्षत्वान्नियतविषयं तथा चक्षुरपि स्वावरणक्षयोपशमसापेक्षत्वान्नियतविषयं, तथा चक्षुरपि स्वावरणक्षयो पशमसापेक्षत्वाद्योग्यदेशावस्थित [नियत] विषयं इति न व्यवहितानामुपलम्भप्रसङ्गो नापि दूरदेशस्थितानामिति / एवं मनसोऽप्यप्राप्यकारित्वं भाव्यं, तत्रापि विषयकृतानुग्रहोपघाताभावात् , अन्यथा तोयादिचिन्तायामनुग्रहोऽग्निशस्त्रादिचि | // 23 //