________________ आवश्यक निर्युक्तेरव चक्षुर्मनसोरप्राप्यका चूर्णिः स्तिा . // 22 // किं प्रमाणमिति चेदुच्यते, अनुमानं, तथाहि-यदि प्रथमसमयेऽपि शब्दादिपरिणतद्रव्याणामुपकरणेन्द्रियस्य च परस्परसम्पृक्ती काचिदपि ज्ञानमात्रा न भवेत्ततो द्वितीयेऽपि समये न स्याद्विशेषाभावात् , एवं यावच्चरमसमयेऽपि, अथ च चरमसमये अर्थावग्रहरूपं ज्ञानं जायमानमुपलभ्यते ततः प्रागपि क्वापि कियती मात्रा प्रतिपत्तव्या, यथा सिकताकणे तैलं नास्ति ततः समुदायेऽपि नोपलभ्यते, अस्ति चरमसमये प्रभूतशब्दादिसम्पर्के ज्ञानं, ततः प्राक्तनेषु समुदायेषु (समयेषु) स्तोकं स्तोकं तज्ज्ञेयं, अन्यथा चरमसमयेऽपि न स्यात् , ततः स्थितमेतद्-व्यञ्जनावग्रहो ज्ञानरूपः, परं तत् ज्ञानमव्यक्तं ज्ञेयं, स चतुर्विधस्तद्यथा-श्रोत्रेन्द्रियव्यञ्जनावग्रहः घ्राणेन्द्रियव्य० जिह्वेन्द्रियव्य० स्पर्शनेन्द्रियव्य० / ननु सत्सु पञ्चस्विन्द्रियेषु षष्ठे च मनसि कस्मादयं चतुर्विधः?, उच्यते, इह व्यञ्जनमुपकरणेन्द्रियस्य शब्दादिपरिणतद्रव्याणां च परस्परं सम्बन्ध उच्यते, सम्बन्धश्च चतुर्णामेव श्रोत्रेन्द्रियादीनां, न नयनमनसोः, तयोरप्राप्यकारित्वात् , कथमप्राप्यकारितेति चेदुच्यते, विषयकृतानुग्रहोपघाताभावात् , यदि पुनः प्राप्तमर्थ चक्षुर्मनो वा गृह्णीयात्तर्हि यथा स्पर्शनेन्द्रियं स्रक्चन्दनादिकमङ्गारादिकं च प्राप्त अर्थ परिच्छिन्दत्तत्कृतानुग्रहोपघातभाग्भवति, तथा चक्षुर्मनसी अपि भवेतां, न च भवतस्तस्मादप्राप्यकारिणी। ननु दृश्यते चक्षुषोऽनुग्रहोपघातौ शशाङ्कसूर्यदर्शनात् , एतजाड्यविलसितं, यतो वयं न ब्रूमः सर्वथा चक्षुषोऽनुग्रहोपघातौ न भवतः, किन्तु विषयमप्राप्तं चक्षुहातीत्येवाभिदध्महे, विषयकृतानुग्रहोपघातासम्भवेऽपि तत्परिच्छेदभावात् , प्राप्तेन तूपघातकेनोपघातो भविष्यति अनुग्राहकेण चानुग्रहः, तत्रांशुमालिनो रश्मयः सर्वत्रापि प्रसरमुपाददते, नात्र विसंवादः, ततस्ते चक्षुःप्राप्ताः सन्तः स्पर्शनेन्द्रियमिव चक्षुरप्युपघ्नन्ति, शीतांशुरश्मयस्तु स्वभावत एव शीतलत्वादनुग्राहकास्ततस्ते चक्षुरनुगृह्णन्ति, तरङ्गमालासङ्कलजलावलोकेन च जलकणसम्पृक्तसमीणारवयव