________________ आवश्यक नियुक्तरव चूर्णिः अवग्रहादि खरूपम् नि.मा.३ // 21 // न चानवगतं धार्यते इति, चत्वार्याभिनिबोधिकज्ञानस्य भिद्यन्त इति भेदाः विकल्पा अंशा इत्यनान्तरं, त एव वस्तूनि [भेदवस्तूनि,] वास्तवा भेदा इति भावः, समासेन संक्षेपेण, विस्तरतस्तु अष्टाविंशत्यादिभेदभावात् // 2 // अनन्तरोपन्यस्तानामवग्रहादीनां स्वरूपं प्रतिपिपादयिषुरिदमाह अत्थाणं उग्गहणं अवग्गहं तह विआलणं ईहं / ववसायं च अवार्य धरणं पुण धारणं बेति // 3 // __अर्यन्ते गम्यन्ते परिच्छिद्यन्ते इतियावद् अर्थाः, ते च रूपादयः, तेषामर्थानां प्रथमं दर्शनानन्तरं ग्रहणं अवग्रहणमवग्रह ब्रुवते इति योगः। ननु वस्तुनः सामान्यविशेषात्मकतया अविशिष्टत्वात् किमिति प्रथमं दर्शनं न ज्ञानमिति, उच्यते तस्य प्रबलावरणत्वाद्दर्शनस्य चाल्पावरणत्वात् / स द्विधा-व्यञ्जनावग्रहो अर्थावग्रहश्च / तत्र व्यञ्जनावग्रहपूर्वकोऽर्थावग्रह इति प्रथम व्यञ्जनावग्रहः प्रतिपाद्यते / व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तच्चोपकरणेन्द्रियस्य शब्दादिपरिणतद्रव्याणां च यः परस्परं सम्बन्धः सम्पृक्तिरित्यर्थः, सम्बन्धे हि सति सोऽर्थः श्रोत्रादीन्द्रियेण व्यक्तुं शक्यते नान्यथा, ततः सम्बन्धो व्यञ्जनं, व्यञ्जनेन-सम्बन्धेनावग्रहणं-सम्बध्यमानस्य शब्दादिरूपस्यार्थस्याव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रह इति / अथवा व्यज्यन्ते इति व्यञ्जनानि कर्मण्यनद्, व्यञ्जनानां-शब्दादिरूपतया परिणतानां द्रव्याणां उपकरणेन्द्रियसम्प्राप्तानामवग्रहः-अव्यक्त | रूपः परिच्छेदो व्यञ्जनावग्रहः, अथवा व्यञ्जनमुपकरणेन्द्रियं शब्दादिपरिणतद्रव्यसङ्घातो वा / ततश्च व्यञ्जनेनोपकरणे- न्द्रियेण शब्दादिपरिणतद्रव्याणां च व्यञ्जनानामवग्रहो व्यञ्जनावग्रहः, स चान्तर्मुहूर्तप्रमाणः / ननु व्यञ्जनावग्रहवेलायां न किमपि संवेदनं संवेदयामहे, तत्कथमसौ ज्ञानरूपो गीयते?, उच्यते अव्यक्तत्वान्न संवेद्यते ततो न कश्चिद्दोषः, अस्तित्वे // 21 //