________________ आवश्यकनियुक्तेरव मतिज्ञान | मेदार नि.मा.२ चूर्णिः // 20 // शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपर्यालोचनमनपेक्ष्यैव यदुपजायते तच्छ्रुतनिश्रितमवग्रहादि, यत्पुनः सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधक्षयोपशमभावत एवमेव यथावस्थितवस्तुसंस्पर्शि मतिज्ञानमुपजायते तदश्रुतनिश्रितं-औत्पत्तिक्यादि, तत्र श्रुतनिश्रितामिनिबोधिकज्ञानस्वरूपप्रदर्शनार्थमाह उग्गह ईहाऽवाओ य धारणा एव हुँति चत्तारि / आमिणिबोहियनाणस्स भेयवत्थू समासेणं // 2 // अवग्रहणमवग्रहः, अनिदेश्यसामान्यमात्ररूपार्थग्रहणमित्यर्थः। 'ईहि चेष्टायां' ईहनमीहा-सद्भूतार्थपर्यालोचनचेष्टा, किमुक्तं भवति ?-अवग्रहादुत्तरकालमपायात्पूर्व सद्भतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषपरित्यागाभिमुखः प्रायोऽत्र मधुरत्वादयः शङ्खादिशब्दधर्मा दृश्यन्ते न निष्ठुरतादयः शाादिशब्दधर्मा इत्येवंरूपो मतिविशेष ईहा, तस्यैवावग्रहीतस्येहितस्य चार्थस्य निर्णयरूपोऽध्यवसायः शाङ्क्ष एवायं शार्ङ्ग एवायमित्यादिरूपोऽवधारणात्मकः प्रत्ययोऽवायः, चशब्दः पृथक् 2 अवग्रहादिस्वरूपस्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादीनामीहादयः पर्याया न भवन्तीत्यर्थः। तस्यैवार्थस्य निर्णीतस्य धरणं धारणा, सा च त्रिधा-अविच्युतिः 1, वासना 2, स्मृतिश्च 3, तत्र तदुपयोगादविच्यवनमविच्युतिः, सा चान्तर्मुहूर्त्तप्रमाणा ततस्तया आहितो यः संस्कारः स वासना, सा च सङ्ख्येयमसद्धयेयं वा कालं यावद्भवति, सङ्घयेयवर्षायुषां सङ्ख्येयं कालमसङ्ख्येयवर्षायुषां वाऽसङ्ख्येयमित्यर्थः / ततः कालान्तरे कुतश्चित्तादृशार्थदर्शनादिकात् कारणात् संस्कारस्य प्रबोधे यज्ज्ञानमुदयते तदेवेदं यन्मया प्रागुपलब्धमित्यादिरूपा सा स्मृतिः। एताश्चाविच्युतिवासनास्मृतयो धरणलक्षणसामान्यान्वर्थयोगाद्धारणाशब्दवाच्याः / एवंशब्दः क्रमप्रदर्शनार्थः, आर्षत्वाच्च मकारलोपः। एवं-अनेनैव क्रमेण, तथाहि-नानवगृहीतमीह्यते, न चानीहितमवगम्यते, // 20 //