________________ आवश्यकनिर्युक्तेरव मतिश्रुतयो चूर्णिः // 19 // - यदुत्कर्षापकर्षवशादुत्कर्षापकर्षभाक् तत्तस्य कारणं, यथा घटस्य मृत्पिण्डः, मत्युत्कर्षापकर्षवशाच्च श्रुतस्योत्कर्षापक| ततः कारणं मतिः श्रुतस्य / तथा च भेदाभेदः, तथाहि-चतुर्धाव्यञ्जनावग्रहपोढार्थावग्रहहापायधारणाभेदादष्टाविंशतिविधमाभिनिबोधिकं ज्ञानं, अङ्गप्रविष्टानङ्गप्रविष्टादिभेदभिन्नं च श्रुतं, तथेन्द्रियविभागाद्भेदः, श्रुतं श्रोत्रेन्द्रियोपलब्धिरेव, न तु श्रोत्रेन्द्रियोपलब्धिः श्रुतमेव, कस्मादिति चेदुच्यते, इह या श्रोत्रेन्द्रियोपलब्धिरपि श्रुतग्रन्थानुसारिणी सैव श्रुतमुच्यते, या पुनरवग्रहेहापायरूपा सा मतिः। शेषं यच्चक्षुरादीन्द्रियोपलब्धिरूपं विज्ञानं तन्मतिज्ञानं / तदेवं सर्वस्याः शेषेन्द्रियोपलब्धेरुत्सर्गेण मतित्वे प्राप्तेऽपवादमाह-मुक्त्वा द्रव्यश्रुतं-पुस्तकपत्रकादिन्यस्ताक्षररूपद्रव्यश्रुतविषयां शब्दार्थपर्यालोचनात्मिकां शेषेन्द्रियोपलब्धिं, तस्याः श्रुतरूपत्वात् , यश्च द्रव्यश्रुतव्यतिरेकेणान्योऽपि शेषेन्द्रियेष्वक्षरलाभःशब्दार्थपर्यालोचनात्मकः सोऽपि श्रुतं, न तु केवलो अक्षरलाभः, केवलो हि अक्षरलाभो मतावपीहादिरूपायां भवति, न च सा. श्रुतं / वल्कसम मतिज्ञानं कारणत्वात् , शुम्बसमं श्रुतं, तत्कार्यत्वात् , ततो यथा वल्कशुम्बयोर्भेदस्तथा मतिश्रुतयोरपि / इतश्च भेदो-मतिज्ञानमनक्षरं साक्षरं च, तथाहि-अवग्रहज्ञानमनक्षरं तस्याऽनिर्देश्यसामान्यमात्रप्रतिभासात्मकतया निर्विकल्पत्वात्, [ईहादिज्ञानं तु साक्षरं तस्य परामर्शादिरूपतयाऽवश्यं वर्णारूषितत्वात् , श्रुतज्ञानं पुनः साक्षरमेव, अक्षरमन्तरेण शब्दार्थपर्यालोचनाऽयोगात् / इतश्च मतिश्रुतयोर्भेदो-मूककल्पं मतिज्ञानं स्वमात्रप्रत्यायनफलत्वात्,] अमूककल्पं श्रुतं, स्वपरप्रत्यायकत्वादिति / मतिश्रुतानन्तरं च कालविपर्यासादिसाधादवधेरुपन्यासः, तदनन्तरं च छद्मस्थविषयभावादिसाधान्मनःपर्यायोपन्यासः, तदनन्तरं च भावमुनिस्वाम्यादिसाधर्म्यात्सर्वोत्तमत्वाच्च केवलोपन्यासः॥१॥ आभिनिबोधिक द्विधा-श्रुतनिश्रितमश्रुतनिश्रितं च, तत्र