________________ मतिश्रुतयो आवश्यकनियुक्तेरव चूर्णिः भेदा. // 18 // मर्थ प्रतिपत्तुं ईष्टे, न शेषस्तस्य तथारूपशक्त्यभावात् , योऽपि च भाषालब्धिमान् भवति द्वीन्द्रियादिः सोऽपि प्रायः स्वचेतसि किमपि विकल्प्य तदभिमानतः शब्दमुगिरति नान्यथा, ततस्तस्याऽपि श्रुतं सम्भाव्यते, यस्त्वेकेन्द्रियः स न श्रोत्रेन्द्रियलब्धिमान्नापि भाषालब्धिमान् , ततः कथं तस्य श्रुतमुत्पद्यते ?, अथ प्रवचने तस्यापि श्रुतमुपवर्ण्यते, ततः प्रागुक्तं श्रुतलक्षणं न सम्यगिति, नैष दोषः, इह तावदेकेन्द्रियाणामाहारादिसंज्ञा विद्यन्ते, तथा सूत्रेऽनेकशोऽभिधानात् , संज्ञा चाभिलाष उच्यते, | यदुक्तमस्यैवावश्यकस्य मूलटीकायां-"आहारसंज्ञा-आहाराभिलाषः क्षुद्वेदनीयप्रभवः खल्वसौ (खल्वात्म) परिणामविशेष” इति, अभिलाषश्च ममैवंरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते ततः समीचीनं भवतीत्येवंशब्दार्थोल्लेखानुविद्धः स्वपुष्टिनिमित्तप्रतिनियंतवस्तुप्राप्त्यध्यवसायः, स च श्रुतमेव, तस्य शब्दार्थपर्यालोचनात्मकत्वात् , शब्दार्थपर्यालोचनात्मकता चममैवंरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते, इत्येवमादीनां शब्दानामन्त ल्पाकाररूपाणां विवक्षितार्थवाचकतया प्रवर्त्तमानत्वात्। तत एकेन्द्रियाणां [अव्यक्तमेव], किश्च नाप्यनिर्वचनीयं तथारूपक्षयोपशमभावतो वाच्यवाचकभावपुरस्सरं शब्दसंसृष्टार्थग्रहणं ज्ञेयं, अन्यथा आ. हारादिसंज्ञानुपपत्तेः, तथा यो भाषाश्रोत्रेन्द्रियलब्धिमान् तस्यैव श्रुतमुपपद्यते इत्यादि, तदप्ययुक्तं, बकुलादीनां स्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियलब्धिविकलत्वेऽपि किमपि सूक्ष्म भावेन्द्रियपञ्चकविज्ञानमभ्युपगम्यते, 'पंचेंदियोब बउलो' इत्यादिभाष्यकारवचनप्रामाण्यात् , तथा भाषाश्रोत्रेद्रियलब्धिविकलत्वेऽपि तेषां सूक्ष्मं किमपि श्रुतं भविष्यति, अन्यथा आहारादिसंज्ञानुपपत्तेः / ततः समीचीनं प्रागुक्तं श्रुतलक्षणमिति भवति लक्षणभेदाद्भेदः। तथा हेतुफलभेदात् , तथाहि-मतिः कारणं, मत्या प्राप्यमाणत्वात् , श्रुतं तु कार्य, न खलु मतिपाटवमन्तरेण श्रुतविभवमुत्तरोत्तरमासादयति जन्तुस्तथाऽदर्शनात् , यश्च EXXXX***&&&&&