________________ आवश्यकनिर्युक्तेरव ज्ञानक्रम सिद्धि मतिश्रुतयो चूर्णिः // 17 // वरणादिकर्मक्षयोपशमसापेक्षत्वात्तदभावे केवलिनो न भवन्ति, ततो नाऽसर्वज्ञत्वदोषभावः / अपरस्त्वाह प्रपन्ना वयमुक्तयुक्तितो ज्ञानस्य पश्चभेदत्वं परममीषां भेदानामित्थमुपन्यासे किश्चिदस्ति प्रयोजनं उत यथाकथञ्चिदेष प्रवृत्तः?, अस्तीति ब्रूमः, किन्तदिति चेद्, उच्यते, इह मतिश्रुते तावदेकत्र वक्तव्ये, परस्परमनयोः स्वाम्यादिसाधात् , तच्च प्रागेव भावितं, अवध्यादिज्ञानेभ्यश्च प्राक्, तद्भाव एवाऽवध्यादिज्ञानसद्भावात् / सर्वत्रापि पूर्वमवग्रहादिरूपं मतिज्ञानमुदयते पश्चाच्छ्रुतज्ञानं / नन्वेते मतिश्रुते सम्यक्त्वोत्पादकाले युगपदुत्पत्तिमासादयतोऽन्यथा मतिज्ञानभावे [ऽपि] श्रुताऽज्ञानभावप्रसङ्गः, स चानिष्टः, तथा मिथ्यात्वप्रतिपत्तौ युगपदेवाज्ञानरूपतया परिणमेते, तत् कथं मतिपूर्व श्रुतमिति, नैष दोषः, यतः सम्यक्त्वोत्पादकाले समकालं मतिश्रुते लब्धिमात्रमेवाङ्गीकृत्य प्रोच्यते न तूपयोगं, उपयोगस्य तथाजीवस्वाभाव्यतः क्रमेणैव सम्भवात् , मतिपूर्व श्रुतमुच्यते उपयोगापेक्षया, न खलु मत्युपयोगेनाऽसञ्चिन्त्य श्रुतग्रन्थानुसारि च विज्ञानमासादयति जन्तुस्ततो न कश्चिद्दोषः / अथ मतिश्रुतयोः किंकृतो भेदः?, उच्येते, लक्षणभेदादिकृतः, उक्तं च-"लक्खणभेआ हेउफलभावओ भेअइन्दिअविभागा। वागक्खरमूगेअरभेआ भेदो मइसुआणं // 1 // " (वि. 97) तत्र लक्षणभेदाझेदो भाव्यते-अभिमुखं-योग्यदेशावस्थितं नियतमर्थमिन्द्रियमनोद्वारेणात्मा येन परिणामविशेषेणावबुध्यते स परिणामविशेषो ज्ञानापरपर्यायः आभिनिबोधिकं, तथा शृणोति वाच्यवाचकभावपुरस्सरं श्रवणविषयेण शब्देन सह संस्पृष्टमर्थ परिछिनत्ति येन परिणामविशेषेणात्मा स परिणामविशेषः श्रुतं, अयं च लक्षणभेदो नन्द्यध्ययने साक्षादभिहितः। ननु यद्येवलक्षणं श्रुतं तर्हि य एव श्रोत्रेन्द्रियलब्धिमान् भाषालब्धिमान्वा तस्यैव श्रुतमुत्पद्यते, न शेषस्यैकेन्द्रियस्य, तथाहि-यःश्रोत्रेन्द्रियलब्धिमान्भवति स विवक्षितं शब्दं श्रुत्वा तेन शब्देन वाच्य // 17 //