________________ आवरणमेदे आवश्यकनिर्युक्तेरव चूर्णिः // 16 // लभ्यते, प्रतिप्राणि स्वसंवेदनप्रत्यक्षेण उत्कर्षापकर्षकृतभेददर्शनात्, अथ यद्युत्कर्षापकर्षकृतमात्रभेददर्शनाज्ज्ञानभेदस्तहिं तावुत्कर्षापकों प्रतिप्राणि देशकालाद्यपेक्षया सहस्रशो विद्येते, ततः कथं पञ्चरूपता?, नैष दोषः, परिस्थूरनिमित्तभेदतः पञ्चधात्वस्य प्रतिपादनात् , तथाहि-सकलघातिकर्मक्षयो निमित्तं केवलज्ञानस्य, मनः पर्यायज्ञानस्य त्वाऽऽमोषध्यादिलब्धियुक्तसंयतस्य प्रमादलेशेनाप्यकलङ्कितो विशिष्टो विशिष्टाध्यवसायानुगतोऽप्रमादः, अवधेस्तु तथाविधोऽनिन्द्रियरूपिद्रव्यसाक्षादवगमनिबन्धनं क्षयोपशमविशेषः, मतिश्रुतयोस्तु लक्षणभेदादिकं, तच्चाग्रे वक्ष्यामः। यदप्युक्तं-'ज्ञेयभेदकृत इत्यादि' तदप्यनभ्युपगमतिरस्कृतत्वाद्दुरापास्तप्रसरं, नहि वयं ज्ञेयभेदमात्रतो ज्ञानभेदमिच्छामः, एकेनाप्यवग्रहादिना बहुबहुविधवस्तुग्रहणोपलम्भात् , यदपि च प्रत्यपादि 'प्रतिपत्तिप्रकारभेदकृत' इत्यादि, तदपि नो न बाधामाधातुमलं, यतस्ते प्रतिपत्तिप्रकारा देशकालभेदेनानन्त्यमपि प्रतिपद्यमाना न परिस्थूरनिमित्तभेदेन व्यवस्थापितानामिनिबोधिकादीन् जातिभेदानतिकामन्ति, ततः कथमेकस्मिननेकभेदभावप्रसङ्गः?, यदप्यवादीत्-'आवार्यापेक्षं हि आवारकमित्यादि' तदपि न नो बाधायै, यतः परिस्थूरनिमित्तभेदतः पश्च सङ्ख्याः, ततस्तदपेक्षमावारकमपि पञ्चधोपवर्णितं इति कश्चिन्न दोषः। न चैवमात्मस्वभावत्वे क्षीणावरणस्यापि तद्भावप्रसङ्गः, यत एते मतिज्ञानावरणादिक्षयोपशमरूपोपाधिसम्पादितसत्ताकाः, यथा सूर्यस्य घनपटलावृत्तस्य मन्दप्रकाशभेदाः | कटकुव्याद्यावरणविवरणभेदोपाधिसम्पादिताः, ततः कथं निःशेषावरणक्षयात्तथारूपक्षयोपशमाभावे भवितुमर्हन्ति ?, न खलु सकलघनपटलकटकुट्याद्यावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाशभेदा भवन्ति, ततो यथा जन्मादयो भावा जीवस्यात्मभूता | अपि कर्मोपाधिसम्पादितसत्ताकत्वात्तदभावे न भवन्ति, तद्वदामिनिबोधिकादयोऽपि भेदा ज्ञानस्यात्मभूता अपि मतिज्ञाना