________________ -आवरणमेदे आवश्यकनियुक्तेरव चूर्णिः // 15 // 5ASEDY वस्त्वामिनिबोधिकज्ञानस्य विषयः, त्रिकालसाधारणसमानपरिणामो ध्वनिगोचरः श्रुतस्य, रूपिद्रव्याण्यवधेः, मनोद्रव्याणि मनःपर्यायस्य, समस्तपर्यायान्वितं सर्व वस्तु केवलज्ञानस्य, तदेतदसमीचीनं, एवं सति केवलज्ञानस्य भेदबाहुल्यप्रसक्तेः, तथाहिज्ञेयभेदाज्ज्ञानस्य भेदः, यानि च ज्ञेयानि प्रत्येकमाभिनिबोधिकज्ञानानामिष्यन्ते तानि सर्वाण्यपि केवलज्ञाने विद्यन्ते, अन्यथा केवलज्ञानेन तेषामग्रहणप्रसङ्गात् , अविषयत्वात् , तथा च सति केवलिनोऽप्यसर्वज्ञत्वप्रसङ्गः, आभिनिबोधिकादिज्ञानचतुष्टयविषयजातस्य तेनाग्रहणात्, न चैतदिष्टं, अथोच्येत-प्रतिपत्तिप्रकारभेदत आभिनिबोधिकस्य तादृशी, श्रुतस्य किन्त्वन्यादृशी, एवमवध्यादिज्ञानानामपि प्रतिपत्तव्यं, ततो भवत्येव प्रतिपत्तिभेदाज्ज्ञानभेदः, तदप्ययुक्तं, एवं सत्येकस्मिन्नपि ज्ञानेऽनेकभेदप्रसक्तः, तथाहि-तत्तद्देशकालस्वरूपभेदेन विविच्यमानमेकैकं ज्ञानं प्रतिपत्तिप्रकारानन्त्यं प्रतिपद्यते, तन्नैषोऽपि पक्षः श्रेयान् , स्यादेतद्-अस्त्यावारकं कर्म, तच्चानेकप्रकार, ततस्तद्देदात्तदावार्य ज्ञानं अप्यनेकतां प्रतिपद्यते, ज्ञानावारकं च कर्म पञ्चधा, प्रज्ञापनादौ तथाभिधानात् , ततो ज्ञानमपि पञ्चधा प्ररूप्यते, तदेवायुक्तिसङ्गतं, यतः आवार्यापेक्षमावारकमत आवार्यभेदादेव तद्देदो न तु तद्देदादावार्यभेदः, आवार्य च ज्ञप्तिरूपापेक्षया सकलमपि एकं, ततः कथमावारकस्य पञ्चरूपता येन तद्भेदाज्ज्ञानस्यापि पञ्चधा भेद उद्गीर्येत, अत्र प्रतिविधीयते-यत्तावदुक्तं 'सकलमपीदं ज्ञानं ज्ञप्त्येकस्वभावं ततो ज्ञप्त्येकस्वभावत्वाविशेषे किंकृत एष आमिनिबोधिकादिभेद इति' तत्र ज्ञप्त्येकखभावता किं सामान्यतो भवताऽभ्युपगम्यते विशेषतो वा', तत्र नाद्यपक्षः क्षितिमाधत्ते, सिद्धसाध्यतया तस्य बाधकत्वायोगात्, बोधरूपतारूपसामान्यापेक्षयाऽपि सकलमपि ज्ञानमस्माभिरेकमभ्युपगम्यत एव, का नो हानिरिति / अथ द्वितीयः पक्षस्तदयुक्तमसिद्धत्वात् , नहि नाम विशेषतोऽपि ज्ञानमेकमेवोप H // 15 //