SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ केवले शेषाभाव: IMOM आवश्यकनियुक्तेरव चूर्णिः // 14 // प्रत्यक्षसाधर्म्य / केवलमेकमसहायं मत्यादिज्ञाननिरपेक्षत्वात्, मत्यादिज्ञाननिरपेक्षता च केवलज्ञानप्रादुर्भावे मत्यादीनामऽसम्भवात्, ननु कथं तदसम्भवो यावता मतिज्ञानादीनि स्वस्वावरणक्षयोपशमेऽपि प्रादुःष्यन्ति ततो निर्मूलस्वस्वावरणविलये तानि सुतरां भविष्यन्ति चारित्रपरिणामवत्, उच्यते-इह यथा जात्यस्य मरकतादिमणेः मलोपदिग्धस्य यावन्नाद्यापि समूलमलापगमस्तावद्यथा यथा देशतो मलविलयस्तथा तथा देशतोऽभिव्यक्तिरुपजायते, सा च कचित् कदाचित्कथश्चिद्भवतीत्यनेकप्रकारा, तथात्मनोऽपि सकलकालकलाकलापावलम्बिनिखिलपदार्थपरिच्छेदकरणकदक्षपारमार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्वरूपस्य यावन्नाद्यापि निखिलकर्ममलापगमस्तावद्यथा यथा देशतः कर्ममलोच्छेदस्तथा तथा देशतस्तस्य विज्ञप्तिरुज्जृम्भते, सा च क्वचित्कदाचित् कथञ्चिदित्यनेकप्रकारा, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे समस्तास्पष्टदेशशक्तिव्यवच्छेदेन परिस्फुटरूपैकाऽभिव्यक्तिरुपजायते, तद्वदात्मनोऽपि ज्ञानदर्शनचारित्रप्रभावतो निःशेषावरणप्रहाणादशेषदेशज्ञानव्यवच्छेदेनैकरूपाऽतिपरिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञप्तिरुल्लसति, ततो मत्यादिनिरपेक्षं केवलं, अथवा शुद्धं केवलं तदावरणमलकलङ्कस्यानवयवशोऽपगमात्, सकलं वा केवलं प्रथमत एवाऽशेषतदावरणविगमतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलं अनन्यसदृशत्वात् , अनन्तं वा केवलं ज्ञेयानन्तत्वात् , केवलं च तत् ज्ञानं च केवल ज्ञान, यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासिज्ञानमिति भावः, चशब्दोऽनुक्तसमुच्चयार्थोऽथवा मनःपर्यायज्ञानसारूप्यं प्रदर्श| यति, अप्रमत्तभावयतिस्वामिसाधाद्विपर्ययाभावयुक्तत्वाच्च / पञ्चममेव पञ्चमकं प्राकृतत्वात्स्वार्थे कः / ननु सकलमपीदं ज्ञानं ज्ञप्त्येकस्वभावं, ततो ज्ञप्त्येकस्वभावत्वाविशेषे किंकृत एष आभिनिबोधिकादिभेदः?, ज्ञेयभेदकृत इति चेत्, तथाहि-वार्त्तमानिक // 14 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy