________________ आवश्यकनिर्युक्तेरवचूर्णिः अन्येषां प्रत्यक्षता // 13 // KAKKKAKKAKKARKKKKKRKI वधिः, अवधिश्चासौ ज्ञानं चेति अवधिज्ञानं, चशब्दोऽनन्तरोक्तज्ञानद्वयेन सहास्य स्थित्यादिभिः साधर्म्यप्रदर्शनार्थ, तथाहियावानेव मतिश्रुतयोरनन्तरमुक्तः स्थितिकालो द्विधापि तावानेवावधेरपीति, यथैव च मतिश्रुते मिथ्यादर्शनोदयतो विपर्ययरूपतामासादयतस्तथावधिरपि, तथाहि-मिथ्यादृष्टस्तान्येव मतिश्रुतावधिज्ञानानि मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानि भवन्तीति विपर्ययसाधर्म्य / यश्च मतिश्रुतयोः स्वामी स एवावधरेपि, तथाहि विभङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव मतिश्रुतावधिज्ञानानां लाभ इति ज्ञान(लाभ)साधर्म्य / तथा परि-सर्वतो भावे, अवनमवः, औणादिकोऽप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्यवो मनःपर्यवः-सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः, अथवा मनःपर्यय इति पाठः, तत्र पर्ययणं पर्यायो भावेऽल् , मनसि मनसो वा पर्ययो मनःपर्ययः-सर्वतस्तत्परिच्छेद इति, स चाऽसौ ज्ञानं च मनःपर्यवज्ञानं मनःपर्ययज्ञानं वा, अपरे 'मणपजयनाण'मिति पाठे मनःपर्यायज्ञानमिति शब्दसंस्कारमाचक्षते, 'कर्मणोऽणि'त्यण, मनःपर्यायं च तत् ज्ञानं च मनःपर्यायज्ञानं, यदिवा मनसः पर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यर्थः, तेषु तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चार्द्धतृतीयद्वीपसमुद्रान्तर्वतिसंज्ञिमनोद्रव्यालम्बनमेव / तथाशब्दो अवधिज्ञानेन सहास्य छद्मस्थत्वादिभिः सारूप्यप्रदर्शनार्थः, तथाहि-यथाऽवधिः छद्मस्थस्य स्यात्तथा मनःपर्यवज्ञानमपीति / यथा चावधिज्ञानं रूपिद्रव्यविषयं तथा मनःपर्यवज्ञानमपि, तस्य मनःपुद्गलालम्बनत्वात् / यथा चावधिः क्षायोपशमिके भावे वर्त्तते तथा प्रस्तुतमपि इति भावसाधर्म्य / यथा चावधिज्ञानं प्रत्यक्षं तथा मनःपर्यायज्ञानमपि, तथाहि-अक्षं-जीवं प्रति साक्षाद्वर्त्तते यज्ज्ञानं तत्प्रत्यक्षं-इन्द्रियमनोनिरपेक्षमात्मनः साक्षात्प्रवृत्तिमत्प्रत्यक्षपीत्यर्थः, तच्चावध्यादि त्रिभेदमिति | // 13 // आव०चू०२