SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ PAN आवश्यकसूत्रावचूर्णिः // 12 // | उपोद्घाते ऐन्द्रियकस्य परोक्षता। विषयविषयिभावलक्षणो यस्मिन्ज्ञाने न तु साक्षादात्मना तत्परोक्षं, धूमादग्निज्ञानवत् / कथमनयोः परोक्षतेत्युच्यते पराश्रयत्वात् , तथाहि-पुद्गलमयत्वाद् द्रव्येन्द्रियमनांस्यात्मनः पृथग्भूतानि ततस्तदाश्रयेणोपजायमानं ज्ञानं आत्मनो न साक्षात्किन्तु परम्परयेति परोक्षता। वैशेषिकादयः प्राहुः-नन्वक्षाणीन्द्रियाण्युच्यन्ते, ततोऽक्षाणामिन्द्रियाणां या साक्षादुपलब्धिःसा प्रत्यक्षं-अक्षं-इन्द्रियं प्रति वर्तत इति प्रत्यक्षमिति व्युत्पत्तेः, तथा च सति लोकप्रसिद्धं साक्षादिन्द्रियाश्रितं घटादिज्ञानं प्रत्यक्षमिति सिद्धं, तदेतदयुक्तं | इन्द्रियाणामुपलब्धृत्वाऽसम्भवात् , तदसम्भवश्वाचेतनत्वात् , तथा चात्र प्रयोगः-यदचेतनं तन्नोपलब्धा, यथा घटः, अचेतनानि | च द्रव्येन्द्रियाणि, न चायमसिद्धो हेतुः, यतो नाम द्रव्येन्द्रियाणि निवृत्त्युपकरणरूपाणि 'निवृत्त्युपकरणे द्रव्येन्द्रिय (त० अ०२ सू० १७)मिति वचनात् , निवृत्त्युपकरणे च पुद्गलमये, पुद्गलमयं च सर्वमचेतनं, पुद्गलानां काठिन्यानवबोधरूपतया चैतन्य प्रति धर्मित्वाऽयोगात् , धर्मानुरूपो हि सर्वत्रापि धर्मी, यथा काठिन्यं प्रति पृथिवी, यदि पुनरनुरूपत्वाभावेऽपि धर्मधर्मिभावो | भवेत् तत् काठिन्यजलयोरपि स भवेत् , न च भवति, तस्मादचेतनाः पुद्गलाः / परमार्थतः पुनरुपलब्धा तत्रात्मैव, कथमिति चेत्, उच्यते, तद्विगमेपि तदुपलब्धार्थानुस्मरणात् , तथाहि-कोऽपि पूर्व चक्षुषा विवक्षितमर्थ गृहीतवान् , ततः कालान्तरे दैवविनियोगतश्चक्षुषोऽपगमेऽपि स तमर्थमनुस्मरति, तत्र यदि चक्षुरेव द्रष्टु स्यात्ततश्चक्षुषोऽभावे तदुपलब्धार्थानु- | स्मरणं न भवेत् , न ह्यात्मना सोऽर्थोऽनुभूतः किन्तु चक्षुषा, चक्षुष एव साक्षात् द्रष्टुत्वेनाभ्युपगमात् , न चान्येनानुभूतेऽर्थेऽन्यस्य | स्मरणं भवति अतिप्रसङ्गात् , तस्मादात्मैवोपलब्धा नेन्द्रियमिति / तथा अवशब्दोऽधशब्दार्थः अव-अधोऽधो विस्तृतं वस्तु धीयते-परिच्छिद्यतेऽनेनेत्यवधिः, अथवा अवधिः-मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्य भा॥१२॥
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy