________________ आवश्यकसूत्रावचूर्णिः // 11 // उपोद्घाते मतिश्रुतयोः | परोक्षता। चकभावपुरस्सरीकारेण शब्दसंसृष्टार्थग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु जलधारणाद्यर्थक्रियासमर्थ घटशब्दवाच्यमित्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः, श्रुतं च तत् ज्ञानं च श्रुतज्ञानं, अथवा श्रूयतेऽनेनास्मादस्मिन्वेति श्रुतं-तदावरणकर्मक्षयोपशमः, तजनितं | ज्ञानमपि श्रुतं कार्ये कारणोपचारात् , शृणोतीति वा श्रुतं-आत्मा, तदनन्यत्वात् ज्ञानमपि श्रुतं, चशब्दस्तु अनयोः स्वामिकालकारणविषयपरोक्षत्वसाधर्म्यात्तुल्यकक्षतोद्भावनार्थः, तथाहि-य एव मतिज्ञानस्य स्वामी स एव श्रुतस्यापीति स्वामिसाधर्म्य, तथा यावानेव मतेः स्थितिकालस्तावानेव श्रुतस्यापि, तत्र प्रवाहापेक्षयातीतानागतवर्तमानरूपः सर्व एव कालः, अप्रतिपतितैकजीवापेक्षया तु षट्पष्टिसागरोपमाणि समधिकानि, उक्तं च-"दो वारे विजयाईसु, गयस्स तिन्निचुए अहव ताई। अइरेगे | नरभवियं, नाणाजीवाण सम्वद्धं // 1 // " (वि. 436) // यथा च मतिज्ञानं क्षयोपशमहेतुकं तथा श्रुतमपि, यथेन्द्रियानिन्द्रियनिमित्तं मतिज्ञान तथा श्रुतमपीति कारणसाधर्म्य, तथा यथा मतिज्ञानमादेशतः सर्वद्रव्यादिविषयमेवं श्रुतमपि, यथा च मतिज्ञानं परोक्षमेवं श्रुतमपीति, एवकारो अवधारणे, स च परोक्षमनयोरवधारयति, आभिनिबोधिकश्रुते एव परोक्षे न शेषज्ञानमिति / अथ परोक्षमिति कः शब्दार्थः ?, उच्यते 'अशूटि(ङ्)व्याप्तौं' अश्नुते-ज्ञानात्मना सर्वानर्थान् व्याप्नोतीत्यक्षः, यद्वा 'अश् भोजने अश्नाति-सर्वानर्थान् यथायोग्यं भुङ्क्ते पालयति वेति | औणादिकसप्रत्ययेऽक्षो जीवः, अक्षस्यात्मनो द्रव्येन्द्रियाणि द्रव्यमनश्च पुद्गलमयत्वात् पराणि वर्तन्ते, पृथग् वर्तन्ते इति भावः, तेभ्यो यदक्षस्य ज्ञानमुदयते तत्परोक्षं, पृषोदरादित्वाद्रूपनिष्पत्तिः। अथवा परैः-इन्द्रियादिभिः सह उक्षा-सम्बन्धो BASST********KKRKSXX. // 11 //