________________ नन्दः आवश्यकसूत्रावचूर्णिः // 10 // नामनन्दिः 1 तथा सद्भावमाश्रित्य लेप्यकर्मादिषु असद्भावं चाश्रित्याऽक्षवराटकादिषु भावनन्दिमतः साध्वादेः स्थापना सा उपोद्घाते स्थापनानन्दिः, यद्वा द्वादशतूर्यरूपद्रव्यनन्दिस्थापना स्थापनानन्दिः२। द्रव्यनन्दिः द्विधा-आगमतो नोआगमतश्च, तत्रागमतो नन्दिपदार्थस्य ज्ञाता तत्र चाऽनुपयुक्तः, 'अनुपयोगो द्रव्य'मिति वचनात् , नोआगमतस्त्रिधा-ज्ञशरीरद्रव्यनन्दिः१, भव्यशरीर- निक्षेपाः। द्रव्यनन्दिः२, ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यनन्दिः३, तत्र यन्नन्दिपदार्थज्ञस्यापगतजीवितस्य शरीरं सिद्धशिलादिगतं तद्भूतभावनया ज्ञशरीरद्रव्यनन्दिः, यस्तु बालको नेदानी नन्दिशब्दार्थमवबुध्यते अथ चाऽवश्यमायत्यां तेनैव शरीरसमुच्छ्रयेण | भोत्स्यते स भाविभावनिबन्धनत्वाद्भव्यशरीरद्रव्यनन्दिः, तद्व्यतिरिक्ता तु द्रव्यनन्दिःद्वादशप्रकारतूर्यसङ्घातः, स चायं “भंभा 1 मुकुंद 2 मद्दल 3, कडंब 4 झल्लरि 5 हुडुक्क 6 कंसाला 7 / काहल 8 तलिमा 9 वंसो 10, संखो 11 पणवो अ 12 बारसमो॥१॥” (बृ-भा०) एषु भम्भा पृथुलमुखढक्काविशेषः, मुकुन्दमर्दलौ मुरजविशेषौ चैव, परमेकतः सङ्कीर्णोऽन्यतस्तु विस्तीर्णो मुकुन्दः, मर्दलस्तु उभयतोऽपि समः, कडम्बः करटिका, तलिमा तिउलिका, शेषं प्रतीतं 3 / भावनन्दिर्द्विधा आगमतो नोआगमतश्च, तत्रागमतो नन्दिपदार्थस्य ज्ञाता तत्र चोपयुक्तः, नोआगमतः पञ्चप्रकारं ज्ञानं, तच्चेदं आभिणिबोहियनाणं, सुयनाणं चेव ओहिनाणं च / तह मणपजवनाणं, केवलनाणं च पंचमयं // 1 // आ-अर्थाभिमुखो नियतः-प्रतिनियतस्वरूपो बोधोऽभिनिबोधः, अभिनिबोध एव विनयादित्वात् 'खार्थे इकणि' आभिनि-|| बोधिकं, यद्वामिनिबुध्यते अनेनास्मादस्मिन्वेत्यभिनिबोधस्तदावरणकर्मक्षयोपशमस्तेन निवृत्तमाभिनिबोधिकं, तच्च तज्ज्ञानं चेति समासः, इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः / तथा श्रवणं श्रुतं-वाच्यवा