________________ आवश्यकसूत्रावचूर्णिः // 9 // द्रव्यमपि च प्रमाणं, तदभावे भावानामत्यन्ताऽसतां खरविषाणस्येवोत्पादाऽयोगात् , भावा अपि च तात्त्विका द्रव्यस्य विचित्र- शक्तिकतया तथा तथा परिणमनभावात्, तथा चाहुः स्तुतिषु गुरवः “अन्योन्यपक्षप्रतिपक्षभावाद्, यथा परे मत्सरिणः प्रवादाः। नयानशेषानविशेषमिच्छन् , न पक्षपाती समयस्तथा ते // 1 // " अथ सर्वज्ञशासने सकलनयभूतौ द्वावेव नयौ, तद्यथा-द्रव्यास्तिकनयः पर्यायास्तिकनयश्च / तत्र नामादिचतुष्टयमध्ये कस्य किं सम्मतमिति?, उच्यते, नामस्थापनाद्रव्याणि द्रव्यास्तिकनयस्य, भावः पर्यायास्तिकस्य, कथं ? इह सिद्धसेनीयास्तावदेवमाहुः-'सामान्यग्राही नैगमः सङ्ग्रहेऽन्तर्भवति, विशेषग्राही व्यवहारे' इति षडेव तत्त्वतो नयाः, तत्र संग्रहो व्यवहारश्च द्रव्यास्तिकनयौ द्रव्याभ्युपगमपरत्वाद् , अतस्तस्य नामादित्रितयमभिमतं, एतावांस्तु विशेषः-सामान्याभ्युपगमपरत्वात्सङ्ग्रहो यानि कानिचिन्नाममङ्गलानि तानि सर्वाण्येकं नाममङ्गलं सर्वाणि स्थापनामङ्गलान्येकं स्थापनामङ्गलं सर्वाणि द्रव्यमङ्गलान्येकं द्रव्यमङ्गलं इति मनुते। व्यवहारस्तु विशेषग्राहीति नाममङ्गलानि प्रत्येकं भिन्नानीच्छति, एवं स्थापनामङ्गलानि द्रव्यमङ्गलानि चेति, ऋजुसूत्रशब्दसमभिरूद्वैवम्भूतास्तु पर्यायाभ्युपगमपरत्वात् पर्यायास्तिकनयः, ततस्तस्य भावः सम्मतः। तदेवमुक्तं प्रासङ्गिकमधुना प्रकृतमुच्यते-तत्र नोआगमतो भावमङ्गलमनेकप्रकारमुक्तं, अथवा नोआगमतो भावमङ्गलं नन्दिः। नन्दीति कः शब्दार्थः?, उच्यते, 'दुनदु समृद्धौ' नन्दनं नन्दिः, प्रमोदो हर्ष इत्यनर्थान्तरं, नन्दिहेतुत्वाज्ज्ञानपञ्चकादिकमपि नन्दिः। अथवा नन्दन्ति प्राणिनोऽनेनास्मिन्वेति नन्दिः औणादिक इः।असावपि मङ्गलवच्चतुर्भेदः,तद्यथा-नामनन्दिःस्थापनानन्दिः द्रव्यनन्दिर्भावनन्दिश्च। तत्र यस्य जीवस्याजीवस्य वा नन्दिशब्दार्थरहितस्य नन्दिरिति नाम क्रियते स नाम्ना नन्दिर्नामनामवतोरभेदोपचारात् नाम चासौ नन्दिश्च उपोद्घाते नामादि मङ्गले द्रव्यास्तिकपर्यायास्तिकनयविचारः नन्दः शब्दार्थश्च।