________________ आवश्यकसूत्रावचूर्णिः // 8 // उपोद्घाते नाममङ्गलादीनां विशिष्टता सापेक्षता। विशेषः, अपरस्त्वाह-भावमङ्गलमेवैकं भावानामेवार्थक्रियाकारित्वात् , ये तु नामादयस्ते सङ्कल्पमात्रसम्पादितसत्ताका इति किं तेषां उपन्यासेन?, तदेतदसम्यक्, नामादीनामपि भाववत् तात्त्विकत्वात् , तेषामपि भाववदविशेषेण शब्दतःप्रतीतेः, तथाहि-अविशिष्टे इन्द्रवस्तुन्युच्चरिते नामादिचतुष्टयमविशेषेण प्रतीतिमासादयति, किमनेन नामेन्द्रो विवक्षित आहोस्वित्स्थापनेन्द्रो द्रव्येन्द्रो भावेन्द्रो वेति ?, यथा घट इत्युक्ते को अनेन घटो विवक्षितो रक्तः कृष्णः शुक्लो नीलो वेति शब्दतः प्रतीयमानाः सर्वेऽपि तात्त्विकाः तथा एते नामादयोऽपीति / नामस्थापनाद्रव्याणि तात्त्विकानि भावमङ्गलाङ्गत्वात् , तदङ्गता च तत्परिणामकारणत्वात् , तथाहि मङ्गलाभिधानं सिद्धाद्यभिधानं चोपश्रुत्याहत्प्रतिमास्थापनां च दृष्ट्वा भूतभावं भव्ययतिशरीरं चोपलभ्य प्रायः सम्यग्दर्शनादिरूपभावमङ्गलपरिणामो जायते कस्याप्यासन्नमुक्तिगामिनः, अन्यच्च यद्वस्तुनोऽभिधानं तदभिधेयधर्ममन्तरेण नोपजायते, अभिधानाभिधेययोर्वाच्यवाचकसम्बन्धेन परस्परमविनाभावित्वात् , अभिधेयधर्मोपि च नामादिविचारप्रक्रमे नामाभिधीयते, अभिधेये अभिधानोपचारात् , यश्च प्रतिनियत आकारो घटादिवस्तुनः सा स्थापना, या च तत्तद्रूपतया परिणमनशक्तिः सा द्रव्यं कारणत्वात् / यश्च साक्षात्पुरःस्फुरन् प्रतिभासते पर्यायः स भावः / ततो यद्वस्तु तन्नामादिचतुष्टयात्मकं, तन्दतरेण वस्तुत्वाऽयोगादिति तात्त्विकानि नामादीनि / एकैकांशावलम्बिनो नामादिनया मिथ्यादृशः एकांशाभ्युपगमपरतया सम्पूर्णवस्तुसंस्पर्शित्वायोगात्, वस्तुनोऽनेकधर्मत्वात्, भगवदर्हन्मतं सुसर्वनयसमूहात्मकमतो नैकांशावलम्बि, किन्त्वेकांशविचारप्रक्रमेऽपीतरांशसापेक्षत्वात्सम्पूर्णवस्तुग्राहीति प्रमाणं, तथाहि-नामापि वस्तुनोधर्मस्तस्य तत्प्रत्ययहेतुत्वात् , आकारोअपि तात्त्विकस्तस्य प्रत्यक्षादिना प्रमाणेनाविसंवादितयोपलम्भात्, // 8 //