________________ आवश्यकसूत्रावचूर्णिः // 7 // उपोद्घाते नाममङ्गलादीनां विशिष्टता। *RR8 क्रियानुभूतियुक्तः, क इवेत्याह-इन्दनादिक्रियानुभवात् , अत्रादिशब्दात् ज्वलनजीवनादिपरिग्रहः, इन्द्रादिवत्-शक्रादिवत् , आदिशब्दात् ज्वलनजीवादिपरिग्रहः, इन्दनादिक्रियानुभवयुक्तेन्द्रादिवदिति भावः। भावतो मङ्गलं भावमङ्गलं, यदि वा भावश्चासौ मङ्गलं च भावमङ्गलं, तच्च द्विधा आगमतो नोआगमतश्च, तत्रागमतो मङ्गलपदार्थस्य ज्ञाता तत्र चोपयुक्तः, 'उपयोगो | भावनिक्षेप' इति वचनात् , नोआगमतो भावमङ्गलं 'सुविशुद्धक्षायिकादिको भावः', नोशब्दोऽत्र सर्वनिषेधवाची / तथा नोआगमतो भावमङ्गलं आगमवर्ज ज्ञानचतुष्टयं सर्वनिषेधत्वान्नोशब्दस्य, यदिवा यः सम्यग्दर्शनज्ञानचारित्रपरिणामः स न आगम एव केवलो नाप्यनागमः किन्त्वागमसम्मिश्र इति नोआगमतो भावमङ्गलं, नोशब्दोऽत्र मिश्रवचनः / यदिवा यो भगवदहन्नमस्काराद्युपयोगः स खल्वागमैकदेशो, विवक्षिताध्ययनाद्यपेक्षया तस्यैकदेशत्वात्, नोशब्दस्य देशवाचित्वात् नोआगमतः स भावमङ्गलं / ननु नाम स्थापनाद्रव्येषु मङ्गलाभिधानं विवक्षितभावशून्यत्वात् द्रव्यत्वं च समानमतः क एषां प्रतिविशेषः ?, उच्यते-इह यथा स्थापनेन्द्रे लोचनसहस्रकुण्डलकिरीटकरकुलिशधारणशचीसन्निधानसिंहासनाध्यासनादिजनितातिशयः खल्विन्द्राकारो लक्ष्यते, कर्तुश्च सद्भूतेन्द्राभिप्रायो भवति, यथाऽयं मया स्वर्गाधिपतिः साक्षादालिखित इत्यादि, द्रष्टुश्च तदाकारदर्शनात्प्रत्ययो यथायमिन्द्रो वर्त्तते, प्रणतिकृतश्च फलार्थिनः स्तोतुं प्रवर्तन्ते, फलं च किंचिदभीष्टं देवतानियोगात्प्राप्नुवन्ति, न तथा नामेन्द्रे नापि द्रव्येन्द्रे, ततो नामद्रव्याभ्यां स्थापनाया विशेषः / यथा च द्रव्येन्द्रो भावेन्द्रकारणतां प्रतिपद्यते प्रतिपन्नवान् वा भावेन्द्रतां उपयोगाऽपेक्षायामपि तदुपयोगतामासादयिष्यति अवाप्तवान् वा न तथा नाम स्थापनेन्द्राविति नामस्थापनाभ्यां द्रव्यस्य विशेषः। स्थापनाद्रव्यलक्षणव्यतिरिक्तस्वरूपं तु नामेति द्रव्यस्थापनाभ्यां नानो *WN +