________________ आवश्यकसूत्रावचूर्णिः तर्हि कथमनुपयुक्तः, अनुपयुक्तश्चेत् कथं मङ्गलशब्दार्थज्ञाता?, ज्ञानस्योपयोगात्मकत्वात् , तदभावे तस्याप्यभावात् , न खलु। उपोद्घाते जीवश्चेतनारहित इति शक्यं प्रतिपत्तुं सचेतसेति / उक्तं आगमतो द्रव्यमङ्गलमधुना नोआगमतोऽभिधीयते, तच्च त्रिधा, तद्यथा- नोआगमज्ञशरीरद्रव्यमङ्गलं, भव्यशरीरद्रव्यमङ्गलं, ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यमङ्गलं च, तत्र यन्मङ्गलपदार्थज्ञस्यापगतजीवितस्य द्रव्यमङ्गलं शरीरं सिद्धिशिलातलादिगतं तद्भूतभावनया घृतमस्मिन् कुम्भे प्रक्षिप्तमासीदित्येष घृतकुम्भ इत्यादिवदतीतनयानुवृत्त्या ज्ञशरीर- भावमङ्गलद्रव्यमङ्गलं, इह सर्वनिषेध एव नोशब्दः, यस्तु बालको नेदानी मङ्गलशब्दार्थमवबुद्ध्यते अथ चावश्यमायत्यां तेनैव शरीर लक्षणं च। समुच्छ्येण भोत्स्यते स भाविभावनिबन्धनत्वात् घृतमस्मिन् कुम्भे प्रक्षेप्स्यते इत्येष घृतकुम्भ इत्यादिवद्भविष्यन्नयानुसरणेन भव्यशरीरद्रव्यमङ्गलं, उभयमपि च नोआगमतो द्रव्यमङ्गलं सर्वथा आगमरहितत्वात् , नोशब्दोऽत्र सर्वनिषेधवाची प्रतिपत्तव्यः। ज्ञशरीरभव्यशरीरव्यतिरिक्तं तु द्रव्यमङ्गलं जिनप्रणीतप्रत्युपेक्षणादिक्रियां कुर्वन्ननुपयुक्तः साध्वादिः, क्रिया हि प्रत्युपेक्षणादिका |) हस्तपादादिव्यापारविशेषरूपा, ततोऽसावागमो न भवति, आगमस्य ज्ञानत्वात् , शरीरादिचेष्टायास्तु तद्विपरीतत्वात् , तामपि यधुपयुक्तः करोति ततोऽसौ भावमङ्गलं भवति, अनुपयुक्तस्य सा द्रव्यं 'अनुपयोगो द्रव्य'मिति वचनात् , ततः क्रियाया | द्रव्यत्वादनागमत्वाच्च तां कुर्वत् साध्वादिरभेदोपचारान्नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यमगलं, अत्रापि सर्वनिषेधवाची नोशब्दः / अधुना भावमङ्गलमभिधातव्यं, भावस्य च लक्षणमिदं-भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः / सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियाद्यनुभवात् // 1 // " अस्यायमर्थः-भवनं भावः, विवक्षितरूपेण परिणमनमित्यर्थः, कोऽसावित्याह-वक्तुर्या विवक्षिता इन्दनज्वलनजीवनादिका क्रिया तस्या अनुभूति:-अनुभवनं तया युक्तो विवक्षित